SearchBrowseAboutContactDonate
Page Preview
Page 423
Loading...
Download File
Download File
Page Text
________________ श्राद्धविधि द्वितीयः प्रकरणम् प्रकाशः आवस्सयस्स समए, निद्दामुई चयंति आयरिआ । तह तं कुणंति जह दस, पडिलेहाणंतरं सूरो ॥ अपवादतस्तु दैवसिकं दिवसतृतीयप्रहरादन्वर्द्धरात्रं यावत् । योगशास्त्रवृत्तौ तु मध्याह्नादारभ्याऽर्द्धरात्रं यावदित्युक्तम् ।। रात्रिकमर्द्धरात्रादारभ्य मध्याह्नं यावत् । उक्तमपि उग्घाडपोरिसिं जा, राइअमावस्सयस्स चुन्नीए । ववहाराभिप्पाया, भणंति पुण जाव पुरिमढें ॥ पाक्षिक-चातुर्मासिक-सांवत्सरिकाणि पक्षाद्यन्ते च स्युः । आह-पाक्षिकं चतुर्दश्यां पञ्चदश्यां वा ? चतुर्दश्यामिति ब्रूमः । यदि पुनः पञ्चदश्यां स्यात्तदा चतुर्दश्यां पाक्षिके चोपवासस्योक्तत्वात्पाक्षिकमपि षष्ठेन स्यात् । तथा च-अट्ठमछठुचउत्थं संवच्छरचाउमासपक्खेसु इत्याद्यागमविरोधः । यत्र च चतुर्दशी गृहीता न तत्र पाक्षिकं, यत्र च पाक्षिकं न तत्र चतुर्दशी । तथाहिअट्टमिचउद्दसीसु उववासकरणं इति पाक्षिकचूर्णौ । सो अ अट्ठमिचउद्दसीसु उववासं करेड़ इत्यावश्यकचूर्णौ । चउत्थछठट्ठमकरणे अट्ठमिपक्खचउमासवरिसे अत्ति व्यवहारभाष्यपीठे । अटुमिचउद्दसीनाणपंचमीचाउमास इत्यादि महानिशीथे । व्यवहारषष्ठोद्देशके च-पक्खस्स अट्ठमी खलु मासस्स य पक्खि मुणेयव्वं इत्यादि व्याख्यायां वृत्तौ चूर्णौ पाक्षिकशब्देन | ३९६
SR No.009625
Book TitleShraddhavidhi Prakaranam
Original Sutra AuthorN/A
AuthorRatnashekharsuri, Vairagyarativijay, Prashamrativijay
PublisherTapagaccha Amar Jain Shala Khambhat
Publication Year1917
Total Pages524
LanguageSanskrit
ClassificationBook_Devnagari, Philosophy, Ritual, & Vidhi
File Size4 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy