SearchBrowseAboutContactDonate
Page Preview
Page 424
Loading...
Download File
Download File
Page Text
________________ श्राद्धविधि द्वितीयः प्रकरणम् । प्रकाशः चतुर्दश्येव व्याख्याता । तदेवं निश्चिनुमः, पाक्षिकं चतुर्दश्यामेव । चातुर्मासिकसांवत्सरिके तु पूर्वं पूर्णिमापञ्चम्योः क्रियमाणे अपि श्रीकालिकाचार्याचरणातश्चतुर्दशीचतुर्थ्योः क्रियते । प्रामाणिकं चैतत्, सर्वसम्मतत्वात् । उक्तं च कल्पभाष्यादौ असढेण समाइन्नं, जं कत्थइ केणई असावज्जं । न निवारिअमन्नेहिं, बहुमणुमयमेअमायरिअं ॥ तीर्थोद्गारादावपिसालाहणेण रन्ना, संघाएसेण कारिओ भयवं । पज्जोसवणचउत्थी, चाउम्मासं चउदसीए ॥ चउमासपडिक्कमणं पक्खिअदिवसम्मि चउविहो संघो । नवसयतेणउएहिं, आयरणं तं पमाणंति ॥ अत्र चाधिकविशेषार्थिना पूज्यश्रीकुलमण्डनसूरिप्रणीतविचारामृतसङ्ग्रहोऽवगाहनीयः । प्रतिक्रमणविधिश्च योगशास्त्रवृत्त्यन्तर्गताभ्यश्चिरन्तनाचार्यप्रणीताभ्य एताभ्यो गाथाभ्योऽवसेयः । पंचविहायारविसुद्धिहेउमिह साहु सावगो वावि । पडिक्कमणं सह गुरुणा, गुरुविरहे कुणइ एक्कोवि ॥ वंदित्तु चेइआई, दाउं चउराइए खमासमणे । भूनिहिअसिरो सयलाइआरमिच्छोक्कडं देइ ॥ सामइअपुव्वमिच्छामिठाइउं काउसग्गमिच्चाइ । सुत्तं भणिअ पलंबिअ, भुअकुप्परधरिअपरिहरणओ ॥ घोडगमाईदोसेहिं विरहिअं तो करेइ उस्सग्गं । नाहि अहो जाणुहूं, चउरंगुलठइअकडिपट्टो ॥ ३९७
SR No.009625
Book TitleShraddhavidhi Prakaranam
Original Sutra AuthorN/A
AuthorRatnashekharsuri, Vairagyarativijay, Prashamrativijay
PublisherTapagaccha Amar Jain Shala Khambhat
Publication Year1917
Total Pages524
LanguageSanskrit
ClassificationBook_Devnagari, Philosophy, Ritual, & Vidhi
File Size4 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy