________________
द्वितीयः
श्राद्धविधिप्रकरणम्
प्रकाशः
समणे वा समणी वा सावए वा साविआ वा तच्चित्ते तम्मणे तल्लेसे तदज्झवसिए तत्तिव्वज्झवसो तदट्ठोवउत्ते तदप्पिअकरणे तब्भावणभाविए। | | उभयो कालमावस्सयं करेड़ । तथा तत्रैव
समणेण सावएण य, अवस्सकायव्वयं हवइ जम्हा । अंतो अहोनिसस्स य तम्हा आवस्सयं नाम ॥
तस्मात् साधुवत् श्राद्धेनापि श्रीसुधर्मस्वाम्यादिपूर्वाचार्यपरम्परायातं प्रतिक्रमणं कार्यम् । मुख्यवृत्त्या द्विसन्ध्यं दिवसनिशाकृतपातकविशुद्धिहेतुत्वेन महाफलत्वात् । यदभ्यधिष्महि
अघनिष्क्रमणं भावद्विषदा क्रमणं च सुकृतसङ्क्रमणम् । मुक्तेः क्रमणं कुर्याद् द्विः प्रतिदिवसं प्रतिक्रमणम् ॥
श्रूयते हि ढिल्ल्यां श्राद्धः कश्चिद् द्विसन्ध्यप्रतिक्रमणाभिग्रही किञ्चिन्नृपव्यापारनिमित्तं सुरत्राणेन सर्वाङ्गं निगडितः कारागृहे क्षिप्तः । लङ्घने जातेऽपि सायं प्रतिक्रमणार्थं रक्षकेभ्यः स्वर्णटङ्ककं मानयित्वा घटीद्वयावधि हस्तनिगडकर्षणपूर्वं प्रतिक्रमणं चक्रे । एवं मासेन षष्टिं सौवर्णटङ्ककान् प्रतिक्रमणार्थमेव प्रददे । तन्नियमदाढ्य स्वरूपं ज्ञात्वा तुष्टेन नृपेण मुक्तः परिधापितः । प्राग्वद्विशिष्य सन्मानितश्च । एवं प्रतिक्रमणविषये यतनीयं । तच्च पञ्चभेदं-दैवसिकं, रात्रिकं, पाक्षिकं, चातुर्मासिकं, सांवत्सरिकं चेति । एषां कालस्तूत्सर्गेणैवमुक्तः ।
अद्धनिबुड्डे बिंबे, सुत्तं कळूति गीयत्था । इअवयणपमाणेणं, देवसियावस्सए कालो ॥ रात्रिकस्य चैवं
३९५