________________
श्राद्धविधि
द्वितीयः
प्रकरणम् |
प्रकाशः
रसायणंति रसायनं सद्भावे व्याधि हरति । तदभावेऽपि सर्वाङ्गीणपुष्टिसुखबलवृद्धिहेतुरनागतव्याधिप्रतिबन्धकं च । एवं प्रतिक्रमणमपि सद्भावेऽतिचारान् विशोधयति । तदभावे चारित्रधर्मपुष्टिं करोति । अत्र कश्चिदाह-श्रावकस्याऽऽवश्यकचूर्युक्तसामायिकविधिरेव प्रतिक्रमणम् । षड्विधत्वस्योभयसन्ध्यमवश्यकरणीयत्वस्य चात्रैव घटमानत्वात् । तथाहि
सामायिकं कृत्वा ईयाँ प्रतिक्रम्य कायोत्सर्गं च विधाय चतुर्विंशतिस्तवं भणित्वा वन्दनकं च दत्वा श्रावकः प्रत्याख्यानं करोति इति षड्विधत्वम् । “सामाइअमुभयसंझं" इति वचनादस्य च कालनैयत्यमिति अत्रोच्यते, न समीचीनमिदम् षड्विधत्वस्य कालनियमस्य चात्राऽसिद्धत्वात्, तत्र तावत्तवाभिप्रायेणाऽपि चूर्णिकृता सामायिकेर्यापथप्रतिक्रमणवन्दनकान्येव साक्षाद्दर्शितानि न शेषाणि, तत्रापीर्यापथप्रतिक्रमणं गमनागमनविषयं नावश्यकतुर्याध्ययनरूपम्,
गमणागमणविहारे, सुत्ते वा सुमिणदंसणे राओ । नावा नइसंतारे, इरिआवहिआपडिक्कमणं ॥
इत्यादिवचनात् । अथ साध्वनुसारेण श्रावकस्येर्यापथप्रतिक्रमणे कायोत्सर्गचतुर्विंशतिस्तवावपि दयेते तर्हि तदनुसारेण किं न प्रतिक्रमणपि तस्योच्यते ? । किञ्च 'असइ साहुचेइयाणं पोसहसालाए वा सगिहे वा सामाइयं वा आवस्सयं वा करेइ' इत्यावश्यकचूर्णावपि सामायिकादावश्यकं पृथगुक्तम् । तथा सामायिकस्य न कालनैयत्यम् । 'जत्थ वा वीसमइ अत्थइ वा निव्वावारो सव्वत्थ करेड़ । तथा जाहे खणिओ ताहे करेड़ तो से न भज्जइ' इति चूणिवचनप्रामाण्यात् । सामाइमुभयसझं इति तु सामायिकप्रतिमापेक्षं, तत्रैव तत्कालनियमस्य श्रूयमाणत्वात् । अनुयोगद्वारसूत्रे तु स्फुटं श्रावकस्यापि प्रतिक्रमणमुक्तम् । यथा
३९४