________________
प्रथम: प्रकाशः
श्राद्धविधिप्रकरणम्
उत्सर्गतः श्रावकेणैकवारभोजिनैव भाव्यम् । यदभाणिउस्सगेण तु सड्ढो अ, सच्चित्ताहारवज्जओ । इक्कासणगभोई अ, बंभयारी तहेव य ॥
यश्चैकभक्तं कर्तुं न शक्नोति स दिवसस्याष्टमे भागेऽन्तर्मुहूर्तद्वयलक्षणे । यामिनीमुखादौ तु रजनीभोजनमहादोषप्रसङ्गादन्त्यमुहूर्तादर्वागेव वैकालिकं करोति । उत्सूरे रात्रौ च भोजनेऽनेके दोषाः, तत्स्वरूपं सदृष्टान्तं मत्कृतार्थदीपिकातोऽवधार्यम् । वैकालिकानन्तरं च यथाशक्ति चतुर्विधाहारं त्रिविधाहारं द्विधाहारं वा दिवसचरमं सूर्योद्गमान्तं प्रत्याख्याति । मुख्यवृत्त्या दिवसे सति द्वितीयभङ्गे रात्रावपि ।
ननु दिवसचरमं निष्फलमेकाशनादिकेनैव गतार्थत्वात् ? नैवं, एकासनादिकं ह्यष्टाद्याकारम्, एतच्चतुराकारम् । अत आकाराणां सङ्क्षपकरणात् सफलमेवेदम् । निषिद्धरात्रिभोजनानामपि दिवसशेषे क्रियमाणत्वात्स्मारकत्वाच्च फलवदेवैत्यावश्यकलघुवृत्तौ । इदं च सुकरं बहुफलं च । दशार्णपुरे श्राविका वैकालिकं कृत्वा दिवसचरमं प्रत्यहं प्रत्याख्याति । तत्पतिश्च मिथ्यादृक् सायंकृतवैकालिको न हि कश्चिद्रात्रौ भुङ्क्ते इति महत्प्रत्याख्यानमिदमित्याधुपहसति । अन्यदा तेनापि दिवसचरिमं प्रत्याख्यातं भक्ष्यसीति पत्न्या निवारणेऽपि, रात्रौ सम्यग्दृष्टिसुरी परीक्षाशिक्षार्थं स्वसृरूपेण घृतपूरादिलम्भममानिन्ये । पत्न्या स. निषिद्धोऽपि लौल्यात्तत्खादन् देवेन तथा शीर्षे प्रहतो यथा दृग्गोलौ भुवि पेततुः । ममापयशो भावीति कायोत्सर्गे श्राद्धी तस्थौ ।
३९१