________________
प्रथमः
प्रकाशः
३९२
च
| ततस्तद्गिरा सुरी मार्यमाणैडकस्य चक्षुषी आनीय सन्दधौ । स एडकाक्ष इति ख्यातः । प्रत्ययदर्शनात् श्राद्धोऽजनि । कौतुकात्तं द्रष्टुं लोके समागच्छति तन्नाम्नां पुरमप्येडकाक्षं जज्ञे । तद्दर्शनाद् बहवः श्राद्धा जज्ञिरे । इति दिवसचरमे एडकाक्षज्ञातम् । ततः सन्ध्यायामन्त्यमुहूर्त्तरूपायामस्तमयति सूर्येऽद्धे बिम्बादर्वाक् पुनरपि तृतीयवारं यथाविधि जिनं पूजयति ।
॥ इति श्रीतपागच्छाधिपश्रीसोमसुन्दरसूरि- श्रीमुनिसुन्दरसूरि-श्रीजयचन्द्रसूरिश्रीभुवनसुन्दरसूरिशिष्य- श्रीरत्नशेखरसूरिविरचितायां श्रीविधिकौमुदीनाम्न्यां श्राद्धविधिप्रकरणवृत्तौ दिनकृत्यप्रकाशकः प्रथमः प्रकाशः ॥
श्राद्धविधिप्रकरणम्