________________
प्रथम: प्रकाशः
श्राद्धविधिप्रकरणम्
मन्तव्यम् ।
अथोत्तरार्द्धव्याख्या । भोजनानन्तरं प्रत्याख्याय दिवसचरिमं ग्रन्थिसहितादि वा प्रत्याख्यानं गुर्वादेर्वन्दनद्वयप्रदानपूर्वमन्यथा वा कृत्वा, गीतार्थानां यतीनां गीतार्थश्राद्धपुत्रादीनां वा अन्तिके समीपे कुर्यात् स्वाध्यायं वाचन-पृच्छना-परावर्त्तना- | 4 धर्मकथानुप्रेक्षालक्षणं यथायोगम् । तत्र निर्जरार्थं यथायोगं सूत्रादेर्दानं ग्रहणं च वाचना १। तस्मिंश्च शङ्किते गुरोः पृच्छनं पृच्छना | २। पूर्वाधीतस्य सूत्रादेरविस्मृत्याद्यर्थमभ्यासः परावर्त्तना ३। जम्बूस्वाम्यादिस्थविरचरितस्याकर्णनं कथनं वा धर्मकथा ४। मनसैव सूत्रादेरनुस्मरणमनुप्रेक्षा ५। अत्र च तद्विद्भिः सह शास्त्रार्थरहस्यानि विचारयेदिति श्रीयोगशास्त्रोक्तेः । श्रीगुरुमुखश्रुतशास्त्रार्थरहस्यपरिशीलनारूप: स्वाध्यायो विशेषकृत्यतया ज्ञेयः । स चात्यन्तगुणहेतुः । यतः
सज्झाएण पसत्थं, झाणं जाणइ अ सव्वपरमत्थं । सज्झाए वहतो, खणे खणे जाइ वेरग्गं ॥ पञ्चविधस्वाध्यायदृष्टान्तादि आचारप्रदीपग्रन्थे व्यवृण्महीत्यत्र नोक्तमित्यष्टमगाथार्थः ॥८॥
सससस सस सससससस ससससस
संझाइ जिणं पुणरवि पूयइ पडिक्कमइ कुणइ तह विहिणा । विस्समणं सज्झायं, गिहं गओ तो कहइ धम्मं ॥९॥
३९०