________________
प्रथमः
श्राद्धविधिप्रकरणम्
प्रकाशः
जह अब्भंगणलेवा सगडक्खवणाण जुत्तिओ हुंति । इअ संजमभरवहणट्ठयाइ साहूण आहारो ॥ तित्तगं व कडुअं व कसायं, अंबिलं च महुरं लवणं वा । एअलद्धमन्नट्ठपउत्तं, महुघयं व भुंजिज्ज संजए ॥ अहव न जिमिज्ज रोगे, मोहुदए सयणमाइउवसग्गे । पाणिदयातवहेलं, अंते तणुमोअणत्थं च ॥ इदं साधुमाश्रित्योक्तं श्राद्धमाश्रित्याऽपि यथार्ह ज्ञेयम् । अन्यत्राप्युक्तम्देवसाधुपुरस्वामिस्वजनव्यसने सति । ग्रहणे च न भोक्तव्यं शक्तौ सत्यां विवेकिना ॥ एवम् 'अजीर्णप्रभवा रोगाः' इत्यजीर्णे । तथाबलावरोधि निर्दिष्टं ज्वरादौ लङ्घनं हितम् । ऋतेऽनिलश्रमक्रोधशोककामक्षतज्वरान् ॥
इत्याधुक्तेः ज्वराक्षिरोगादौ । तथा देवगुरुवन्दनाद्ययोगे, तथा तीर्थगुरुनमस्करणविशेषधर्माङ्गीकरणप्रौढपुण्यकार्यप्रारम्भादिदिनेष्वष्टमीचतुर्दश्यादिविशेषपर्वसु च भोजनं त्याज्यम् । क्षपणादितपसोऽत्र परत्रापि बहुगुणत्वात् । यतः
अथिरं पि थिरं वंकं पि उज्जुअं दुल्लहं पि तह सुलहं । दुस्सज्जंपि सुसज्जं, तवेण संपज्जए कज्जं ॥ वासुदेवचक्रवर्त्यादीनां तत्तद्देवसेवकीकरणाद्यैहिककार्याण्यप्यष्टमादितपसा सिध्यन्ति न त्वन्यथा । इति भोजनविधिः । नमस्कारस्मरणेनोत्थितश्चैत्यवन्दनया देवान् गुरूंश्च यथायोगं वन्दते । सर्वं चेदं सुपत्तदाणाइजुत्ति इत्यत्रोक्तादिशब्देन सूचितं
३८९