________________
प्रथमः
श्राद्धविधिप्रकरणम्
प्रकाशः
अमेध्यसंभवं नाद्याद् दृष्टं भ्रूणादिघातकैः । रजस्वलापरिस्पृष्टमाघ्रातं गोश्वपक्षिभिः ॥ अज्ञातागममज्ञातं पुनरुष्णीकृतं तथा । युक्तं चवचवाशब्दैर्नाद्याद्वक्त्रविकारवान् ॥ आह्वानोत्पादितप्रीतिः कृतदेवाभिधास्मृतिः । समे पथावनत्युच्चे निविष्टो विष्ठरे स्थिरे ॥ मातृष्वम्बिकाजामिभार्याद्यैः पक्कमादरात् । शुचिभिर्मुक्तवद्भिश्च दत्तं चाद्याज्जनेऽसति ॥ कृतमौनमवक्राङ्गं वहद्दक्षिणनासिकम् । प्रतिभक्ष्यसमाघ्राणहतदृग्दोषविक्रियम् ॥ नातिक्षारं न चात्यम्लं नात्युष्णं नातिशीतलम् । नातिशाकं नातिगौल्यं मुखरोचकमुच्चकैः ॥ कलापकम् ॥ अच्चुण्डं हणइ रसं अइअंबं इंदियाई उवहणइ । अइलोणि च चक्खुं, अइणिद्धं भंजए गहणि ॥ तित्तकडुएहिं सिंभं जिणाहि पित्तं कसायमहुरेहिं । निद्भुण्हेहिं अ वायं, सेसावाही अणसणाए ॥ अशाकभोजी घृतमत्ति योऽन्धसा, पयोरसान् सेवति नातिपोऽम्भसाम् । अभुग विमुमूत्रकृतां विदाहिना, चलत्प्रमुग् जीर्णभुगल्पदेहरुम् ॥ आदौ तावन्मधुरं मध्ये तीक्ष्णं ततस्ततः कटुकम् । दुर्जनमैत्रीसदृशं भोजनमिच्छन्ति नीतिज्ञाः ॥ सुस्निग्धमधुरैः पूर्वमश्नीयादन्वितं रसैः । द्रवाम्ललवणैर्मध्ये पर्यन्ते कटुतिक्तकैः ॥
३८७