________________
प्रथमः
प्रकाशः
इति पात्रदाने परिग्रहपरिमाणे च रत्नसारकथा ।
श्राद्धविधिएवं साध्वादिसंयोगेऽवश्यं सुपात्रदानं प्रतिदिनं विवेकी विधिना विधत्ते । तथा यथाशक्ति तदवसराद्यायातसाधर्मिकान् सह 4
प्रकरणम् भोजयति । तेषामपि पात्रत्वात्, तद्वात्सल्यविध्याद्यग्रे वक्ष्यते । तथा ददात्यौचित्येनाऽन्येभ्योऽपि द्रमकादिभ्यः । न प्रत्यावर्त्तयति तान्निराशान् । न कारयति कर्मबन्धनम् । न गर्हयति धर्मम् । न भवति निष्ठुरहृदयः । भोजनावसरे द्वारपिधानादि न हि महतां दयावतां वा लक्षणम् । श्रूयतेऽपि चित्रकूटे चित्राङ्गदनृपः, शत्रुसैन्यैर्दुर्गे वेष्टितेऽपि तत्प्रवेशभयोद्रेकेऽपि भोजनकाले प्रतोली प्रत्यहमुद्घाटयामास । तन्मर्मणा तु गणिकोक्तेन शत्रुभिर्दुर्गग्रहादि कृतम् । ततः श्राद्धेन भोजनसमये द्वारं न पिधातव्यं, विशिष्य च समृद्धेन । यतः
कुक्षिभरिन कस्कोऽत्र बह्वाधारः पुमान् पुमान् । ततस्तत्कालमायातान् भोजयेद् बान्धवादिकान् ॥ अतिथीनथिनो दुःस्थान् भक्तिशक्त्यनुकम्पनैः । कृत्वा कृतार्थानौचित्याद् भोक्तुं युक्तं महात्मनाम् ॥ आगमेऽप्युक्तंनेव दारं पिहावेइ, भुंजमाणो सुसावओ । अणुकंपा जिणिदेहिं, सड्डाणं न निवारिआ ॥ दृट्ठण पाणिनिवहं, भीमे भवसायरम्मि दुक्खत्तं । अविसेसओणुकंपं, दुहावि सामत्थओ कुणइ ॥
सससस सससस सससससससस
३८३