________________
प्रथमः
प्रकाशः
३८२
क्षत्रपुत्रश्च कीरोऽभूत्तिर्यक्त्वं दानविघ्नजम् । तस्य तादृक्षवैदग्ध्यं प्राग्ज्ञानबहुमानजम् ॥७६८॥ श्रीसारमुक्तचौरश्च तापसव्रततोऽभवत् । चन्द्रचूडसुरो रत्नसारसाहाय्यकारकः ॥ ७६९॥ श्रुत्वेति क्षितिपालाद्याः पात्रदानेऽतिसादरा । अर्हद्धर्मं व्यधुः सम्यग् बुद्धे तत्त्वे हि कोऽलसः ? ॥ ७७० ॥ अहो ! महीयसां धर्मः सहस्त्रांशुरिवोल्लसन् । तमः प्रमथ्य सन्मार्गे समग्रान् यः प्रवर्त्तयेत् ॥७७१॥ पुण्यप्राग्भारसारश्च रत्नसारकुमारराट् । सह प्रियाभ्यां बुभुजे भोगांश्चिरमनुत्तरान् ॥ ७७२ ॥ स्वभाग्यैरेव सिद्धार्थः पुमर्थद्वयमेव सः । अन्योऽन्याबाधया साधु साधयामास शुद्धधीः ॥ ७७३ ॥ रथयात्रास्तीर्थयात्रा रूप्यस्वर्णमणीमयीः । प्रतिमास्तत्प्रतिष्ठाश्च प्रासादांश्च मुदाऽर्हताम् ॥७७४॥ चतुर्द्धा सङ्घसत्कारानुपकारान्यरेष्वपि । स चिरं रचयामास श्रियः फलमिदं खलु ॥७७५॥ युग्मम् । संसर्गात्तस्य कान्ते ते उभे अपि बभूवतुः । तद्वत्सम्यग् धर्मनिष्ठे सुसंसर्गान्न किं भवेत् ? ॥७७६ ॥ सप्रियाद्वितयः स्वायुःक्षये पण्डितमृत्युना । स प्रापदच्युतं कल्पं श्राद्धस्यैषा गतिः परा ॥७७७|| ततश्च्युतो विदेहेषु सम्यक् श्रीधर्ममार्हतम् । स समाराध्य लब्धा च मङ्क्षु मोक्षसुखश्रियम् ॥ ७७८ ।। रत्नसारचरितादुदीरितादित्थमद्भुततयाऽवधारितात् । पात्रदानविषये परिग्रहस्वेष्टमानविषये च यत्यताम् ॥७७९ ॥
11111
श्राद्धविधि
प्रकरणम्