________________
प्रथमः
प्रकाशः
३८१
वधः शस्त्रं विना राज्ञामाज्ञाभङ्ग इति क्रुधा । ततः क्षितीशः श्रीसारं नितरां निरभर्त्सयत् ॥७५५ ॥ ततोऽतिदूनः सोऽन्यूनमन्युर्द्राग् निर्ययौ पुरात् । मानिनां मानहानिर्हि प्राणहानेर्विशिष्यते ॥७५६॥ ज्ञानदर्शनचारित्रैरिवात्मा स कुमारराट् । अनुजग्मे त्रिभिर्मित्रैर्मित्रत्वाव्यभिचारिभिः ॥७५७॥ यतः - जानीयात्प्रेषणे भृत्यान् बान्धवान् व्यसनागमे । मित्रमापदि काले च भार्यां च विभवक्षये ॥७५८ ॥ सार्थेन यान्तस्तेऽरण्ये सार्थभ्रष्टाः क्षुधार्दिताः । त्र्यहं भ्रान्त्वा क्वचिद् ग्रामे प्राप्ता भोज्यान्यसज्जयन् ॥७५९॥ तेभ्यो भिक्षामथादातुं दातुं चाभ्युदयं परम् । जिनकल्पी मुनिस्तत्राययौ स्वल्पीभवद्भवः ॥७६०॥ भद्रकप्रकृतित्वेनोल्लसद्भावोऽवनीशसूः । तस्मै दानं ददे प्रत्याददे भोगफलं किल ॥७६१ ॥
द्वाभ्यां सुहृद्भ्यां प्रामोदि तत् त्रिधाऽप्यन्वमोदि च । यद्वा युक्तं सवयसां समानसुकृतार्जनम् ॥७६२॥ दीयतां दीयतां सर्वमीदृग् योगः पुनः क्व नः । तावित्युक्त्याऽधिक श्रद्धाज्ञप्त्यै मायां च चक्रतुः ॥७६३॥ क्षत्रपुत्रस्तु तुच्छात्मा तद्दानावसरेऽवदत् । स्थाप्यमस्मत्कृते किञ्चित् क्षुधार्त्ताः स्मः प्रभो ! भृशम् ॥७६४॥ दानविघ्नाद् भोगविघ्नं सेत्यबध्नान्मुधा कुधीः । राज्ञाहूताः पुनः प्रापुः स्वपदं च मुदं च ते ॥ ७६५ ॥ राज्यं श्रेष्ठिपदं मन्त्रिपदं वीराग्रयतां क्रमात् । ते मध्यमगुणा भुक्त्वा चत्वारोऽपि विपेदिरे ॥७६६॥ श्रीसारस्तेष्वभूद्रत्नसारः सत्पात्रदानतः । श्रेष्ठ्यमात्यसुतौ चास्य पत्न्यौ स्त्रीत्वं हि मायया ॥७६७॥
AAAAA
श्राद्धविधिप्रकरणम्