________________
प्रथमः
श्राद्धविधिप्रकरणम्
प्रकाशः
AAAAAAAAAAAAAAAA
वसुसारादिमहेभ्ययुक् परद्धर्या पुरी ततः । प्रावीविशत्तमुर्वीशः कटरे पुण्यपाटवम् ? ७४२॥ कृतेष्वथौचित्यकृत्येष्वौचितीचतुरः शुकः । कुमारस्याऽखिलं वृत्तं नृपादीनां पुरोऽभ्यधात् ।।७४३॥ श्रुत्वा सत्त्वाद्भुतं तच्च ते चमच्चक्रिरेतराम् । तत्प्रशंसैकमुखराः सर्वेऽप्युर्वीश्वरादयः ॥७४४॥ प्राप्तमन्येधुरुद्यानं विद्यानन्दगुरूत्तमम् । वन्दितुं रत्नसाराद्या नृपाद्याश्च मुदा ययुः ॥७४५॥ यथार्हदेशनाप्रान्ते क्ष्माकान्तेन सविस्मयम् । रत्नसारकुमारस्य पप्रच्छे प्राग्भवं गुरुः ॥७४६॥ सोऽप्युवाच चतुर्ज्ञानी राजन् ! राजपुत्र पुरे । धात्रीशपुत्रः श्रीसार: श्रीसार: सर्वथाऽभवत् ॥७४७॥ श्रेष्ठिमन्त्रिक्षत्रियाणां पुत्रा मित्राणि तस्य च । तैः पुमथैस्त्रिभिः सोऽभादुत्साह इव जङ्गमः ॥७४८॥ कलासु कौशलं मित्रत्रयस्य क्षत्रियात्मजः । दृष्ट्वा स्वं तज्जडं निन्दन्नुचैर्ज्ञानममानयत् ।।७४९॥ राज्ञीगृहेऽन्यदा दत्तखात्रः कश्चित्सलोनकः । बद्धश्चौरो भटैर्वध्यश्चादिष्टः क्रुद्धभूभुजा ॥७५०॥ वधार्थं वधकैर्नीयमानश्च स कुरङ्गवत् । त्रस्तदृग् ददृशे दैवात् श्रीसारेण कृपालुना ॥७५१॥ मन्मातुर्द्रव्यहर्ताऽयमिति हन्ताऽस्म्यमुं स्वयम् । इत्युक्त्वा घातकेभ्यस्तं लात्वा सोऽगाद् बहिः पुरात् ॥७५२॥ हृदयालुर्दयालुस्तं स्तेनं स्तैन्यान्निवार्य सः । मुमोच गुप्तवृत्त्याऽऽशु सापराधेऽप्यहो ! कृपा ॥७५३॥ सर्वेषां पञ्च सर्वत्र स्युमित्राणि च शत्रवः । इति कश्चित् क्षितीशस्य प्रोचे तच्चौरमोचनम् ।।७५४॥
३८०