________________
प्रथमः
श्राद्धविधिप्रकरणम्
प्रकाशः
महालोभमहावारिपूरे दूरे प्रसृत्वरे । तृण्यन्ति सर्वेऽप्यपरे स पुनः कृष्णचित्रकः ॥७२९॥ परहक्कां केसरीव तस्य वाक्यमसासहिः । शशाङ्कशेखरसुरस्त्वत्परीक्षार्थमाययौ ॥७३०॥ कीरं सपञ्जरं जहे चक्रे नव्यां स सारिकाम् । विचक्रे नगरं शून्यं रक्षोरूपं च भीषणम् ॥७३१॥ तेनैवाब्धौ चिक्षिपिषे शेषापि च बिभीषिका । व्यधायि वसुधारत्न ! स चाहं चन्द्रशेखरः ॥७३२॥ तदुत्तम ! क्षमस्वैतदखिलं खलचेष्टितम् । किञ्चिच्चादिश मे यस्मादमोघं देवदर्शनम् ॥७३३॥ उज्जगार कुमारस्तं नास्ति किञ्चित्प्रयोजनम् । मम सर्वार्थसिद्धस्य सम्यक्श्रीधर्मयोगतः ॥७३४॥ किन्तु त्वया धुसद्वर्य ! कार्या नन्दीश्वरादिषु । तीर्थेषु यात्राः सफली स्यात्तवापि जनुर्यथा ॥७३५॥ आमेत्युक्त्वा कुमाराय दत्त्वा कीरं सपञ्जरम् । झटित्युत्पाट्य कनकपुर्यां तं मुमुचे सुरः ॥७३६॥ तत्र धात्रीश्वरादीनां पुरः सुरवरः परम् । तस्य प्रकाश्य माहात्म्यं सद्यः स्वं पदमासदत् ॥७३७॥ अथो कथञ्चिदापृच्छ्य पृथिवीशं कुमारराट् । द्वाभ्यां प्रियाभ्यां सहितः प्रतस्थे स्वपुरं प्रति ॥७३८॥ सैष संप्रेषणायातसामन्तसचिवैर्वृतः । बुबुधेऽपि बुधैर्मार्गे भूपभूरिभ्यभूरपि ॥७३९॥
स्थाने स्थाने मार्गभूपैः स कृती कृतसत्कृतिः । क्रमात् कियद्दिनै रत्नविशालां प्राप्तवान् पुरीम् ॥७४०॥ ___तां च दृष्ट्वा कुमारस्य ऋद्धिविस्तारसारताम् । समरसिंहोऽपि भूपोऽभ्यागाद्भरिमहेभ्ययुक् ॥७४१॥
३७९