________________
प्रथमः
श्राद्धविधिप्रकरणम्
प्रकाशः
कियत्कालव्यतिक्रान्तौ सिक्तौ महत्तरैः सुरैः । बभूवतुः प्रशान्तौ तौ सिध्येत् किं वा न तज्जलात् ? ॥७१६॥ युगलम् । ततस्तयोमिथस्त्यक्तवैरयोः सचिवैर्द्वयोः । प्रोचे पूर्वव्यवस्थैवं सुधियां समये हि गीः ॥७१७॥ सा चैवं-दक्षिणस्यां विमाना ये सौधर्मेशस्य तेऽखिलाः । उत्तरस्यां तु ते सर्वेऽपीशानेन्द्रस्य सत्तया ॥७१८॥ पूर्वस्यामपरस्यां च वृत्ताः सर्वे विमानकाः । त्रयोदशापीन्द्रकाश्च स्युः सौधर्मसुरेशितुः ॥७१९॥ पूर्वापरदिशोस्त्रयस्त्रयाश्चतुरस्राश्च ते पुनः । सौधर्माधिपतेरर्द्धा अर्द्धा ईशानचक्रिणः ॥७२०॥
सनत्कुमारे माहेन्द्रेऽप्येष एव भवेत् क्रमः । वृत्ता एव हि सर्वत्र स्युर्विमानेन्द्रकाः पुनः ॥७२१॥ इत्थं व्यवस्थया चेतःसौस्थ्यमास्थाय सुस्थिरौ । विमत्सरौ प्रीतिपरौ जज्ञाते तो सुरेश्वरौ ॥७२२॥ तस्मिन्नवसरे चन्द्रशेखरेण सुरेण सः । हरिणैगमेषी स्वर्गिप्रष्ठः पृष्टः सकौतुकम् ॥७२३॥ विश्वविश्वेऽपि किं क्वापि कोऽप्यास्ते यो न लुब्धधीः । लुभ्यन्ति वा यदीन्द्राद्या वार्ताऽप्यन्यस्य तर्हि का ? ॥७२४॥ अहो ! लोभस्य साम्राज्यमेकच्छन्नं जगत्त्रये । गृहदासीकृता येन देवेन्द्रा अपि हेलया ॥७२५॥ नैगमेषी बभाषेऽथ सत्यं भो ! भाषसे सखे ! । वसुन्धरायां नवरं नैवास्ते काऽप्यनस्तिता ॥७२६।। संप्रत्यस्ति श्रेष्ठिसारवसुसारसुतः क्षितौ । अक्षोभ्यः खलु लोभेन रत्नसारकुमारराट् ।।७२७।। अङ्गीकृतपरिग्रहपरिमाणवतः स हि । अकम्प्यस्त्रिदशैः सेन्ट्रैरप्यात्मनियमस्थितेः ॥७२८॥
३७८