________________
प्रथमः
श्राद्धविधिप्रकरणम्
प्रकाशः
इवेन्द्रजालिकः क्षिप्रं रूपं संहृत्य राक्षसम् । वैमानिकः सुरः सोऽभूद्दिव्याभरणभासुरः ॥७०३॥ युग्मम् । पुष्पवृष्टिं च कृतवानम्बुवृष्टिमिवाम्बुदः । तस्योपरिष्टाद् बन्दीव कुर्वन् जयजयारवम् ॥७०४॥ सविस्मयैकव्यापारं कुमारं व्याजहार च । सात्त्विकेषु तवैवाद्य रेखा नृष्विव चक्रिणः ॥७०५॥ त्वया पुरुषरत्नेन रत्नागर्भऽद्य भूरभूत् । भवतैवैकवीरेण वीर ! वीरवती च सा ॥७०६॥ साधु साधु त्वया साधुसन्निधेधर्म आददे । काञ्चनाचलचूलेव यस्यैवं निश्चलं मनः ॥७०७॥ हरिसेनानीहरिणैगमेष्यनिमिषाग्रणीः । युक्तमेव तव श्लाघां कुरुते सुरसाक्षिकम् ॥७०८॥ वक्ति स्म विस्मयस्मेरः कुमारः स सुराग्रणीः । मामश्लाघ्यं श्लाघते किम् ? सोऽप्युवाच शृणु ब्रुवे ॥७०९।। नव्योत्पन्नतयाऽन्यहि सौधर्मेशानशक्रयोः । विवादोऽभूद्विमानार्थं हार्थमिव हम्यिणोः ॥७१०॥ विमानलक्षा द्वात्रिंशत्तथाष्टाविंशतिः क्रमात् । सन्त्येतयोस्तथाप्येतौ विवदेते स्म धिग् भवम् ॥७११॥ तयोरिवोर्वीश्वरयोविमानद्धिप्रलुब्धयोः । नियुद्धादिमहायुद्धान्यप्यभूवन्ननेकशः ॥७१२॥ निवार्यते हि कलहस्तिरश्चां तरसा नरः । नराणां च नराधीशैर्नराधीशां सुरैः क्वचित् ॥७१३॥ सुराणां च सुराधीशैः सुराधीशां पुनः कथम् ? । केन वा स निवार्येत वज्राग्निरिव दुःशमः ॥७१४॥ माणवकाख्यस्तम्भस्थाहदंष्ट्राशान्तिवारिणा । साधिव्याधिमहादोषमहावैरनिवारिणा ॥७१५॥
३७७