________________
प्रथम: प्रकाशः
श्राद्धविधिप्रकरणम्
रे मूढ ! सुप्रौढतया हh मेऽमुद्रनिद्रया । सुखं शेषे तलाठ्ठी च स्वावुन्म्रक्षयसे मया ॥६८९॥ मदुक्तं हितमप्येकं मुमूर्षो न चिकीर्षसि । तत्पश्य मम कोपस्य फलदस्यातुलं फलम् ॥६९०॥ इति क्रव्याद् ब्रुवन् क्रव्यमव्यग्र इव गृध्रराट् । कुमारमपहृत्य द्रागुत्पपात नभोङ्गणे ॥६९१॥ ततः क्रोधोद्धरः कम्प्राधरः क्रव्याधुरन्धरः । क्षिप्रं चिक्षेप तं भीष्माम्बुधौ स्वं च भवाम्बुधौ ॥६९२॥ झटित्यपारेऽकूपारे कुमारेशस्तदा दिवः । निष्पपात सनिर्घातं मन्थाद्रिरिव जङ्गमः ॥६९३॥ कौतुकादिव पातालं गत्वा तत्कालमेव सः । जलोपरि प्रादुरभूज्जलस्य स्थितिरीदृशी ॥६९४॥ जगौ च कुग्रहागार ! निर्विचार ! कुमार रे ! । किं मुधा म्रियसे ? राज्यश्रियं संश्रयसे न किम् ? ॥६९६॥ रे निन्द्य ! निन्द्यमप्याधां त्वदुक्तं त्रिदशोऽप्यहम् । प्रशस्यमपि मत्प्रोक्तं नरोऽपि न करोषि रे ! ॥६९७॥ रे रे ! सद्यः प्रपद्यस्व नो चेदश्मशिलातले । आस्फाल्यास्फाल्य रजक इव वस्त्रं मुहुर्मुहुः ॥६९८॥ त्वां कृतान्तनिशान्तस्यातिथीकर्ताऽस्म्यसंशयम् । सुराणां न मृषारोषः स्याद्विशिष्य च रक्षसाम् ॥६९९॥ युग्मम् । इत्युदित्वा पदोधृत्वाऽधोमुखः क्रोधिनाऽमुना । आस्फालनायोपशिलं नीतोऽप्याह स साहसी ॥७००॥ निर्विकल्पं स्वसङ्कल्पं क्षिप्रमेव कुरुष्व भोः ! । कस्मिन्नर्थे मुहुः पृच्छा सतामेकैव गीर्यतः ॥७०१॥ ततस्तादृक्कुमारेन्द्रसत्त्वोत्कर्षप्रहर्षतः । प्रोल्लसत्पुलकाङ्करस्तेज:पूर इवोद्धरः ॥७०२॥
३७६