________________
प्रथमः
श्राद्धविधिप्रकरणम्
प्रकाशः
यद्वाऽप्यऽन्यप्रार्थनायामार्यः कुर्यात्तदेव हि । न यतः स्वव्रतभ्रंशस्तभ्रंशे किं नु तिष्ठति ॥६७६॥ दाक्षिण्येनापि किं तेन येन धर्मोऽपि बाध्यते । काञ्चनेनापि किं तेन येन स्यात् कर्णयोस्त्रुटि: ॥६७७॥ तावदेव हि कर्पूरं भक्षणीयं विचक्षणैः । यावता हन्त नो दन्तपतनोदन्तसंभवः ॥६७८॥ दाक्षिण्यलज्जालोभादि देहवद् बाह्यमेव हि । स्वजीवितं तु मन्तव्यं कृतिभिः स्वीकृतं व्रतम् ॥६७९॥ तुम्बे विनष्टे किमरैः ? राज्ञि नष्टे च किं भटैः ? । मूले दग्धे प्रतानैः किं ? पुण्ये क्षीणे किमौषधैः ? ॥६८०॥ शून्ये चित्ते च किं शास्त्रैः ? किमस्त्रैस्त्रुटिते करे ? । खण्डिते स्वव्रते किं वा दिव्यैश्वर्यसुखादिभिः ? ॥६८१॥ इति चिन्तितपूर्वी तं कुमारः स्फारसारगीः । जगौ सगौरवं युक्तं युक्तं नक्तञ्चर ! त्वया ॥६८२॥ परं पुराऽप्युपगुरु प्रपेदे नियमो मया । परित्याज्यस्य राज्यस्य प्राज्यपाप्ममयत्वतः ॥६८३॥ यमश्च नियमश्च द्वौ विराद्धौ तीव्रदुःखदौ । किन्त्वायुःप्रान्त एवैकः परस्त्वाजन्मतोऽनिशम् ॥६८४॥ तद्येन नैव नियमः क्वचिद् भज्येत भो ! मम । तदादिशापि दुःसाध्यं द्राक् साधो ! साधये यथा ॥६८५॥ यातुधानोऽभ्यधात् क्रोधाद् रे ! मुधाऽभिदधासि किम् ? । प्राक् प्रार्थनां व्यर्थयसेऽन्यां च कारयसे मया ॥६८६॥ रे तद्राज्यं परित्याज्यं यत्र युद्धादिपातकम् । राज्ये त्रिदशदत्ते तु पातकिन् ! पातकं कुतः ? ॥६८७॥ रे प्राज्यराज्यदानेऽपि मन्द ! मन्दायसेतमाम् । सुगन्धिघृतपानेऽपि छूछूत्कारं करोषि रे ॥६८८॥
३७५