________________
प्रथम: प्रकाशः
श्राद्धविधिप्रकरणम्
तदुदारजनाधार ! रत्नसारकुमार ! ते । प्रार्थये प्रार्थना व्यर्थीकुर्याश्चेन्न कथञ्चन ॥६६३॥ सोऽप्यभ्यधत्त भो ! वित्तचित्तवाग्विक्रमोद्यमैः । यद्देहजीविताद्यैश्च साध्यं साध्यं हि तन्मया ॥६६४॥ तदा जगाद क्रव्यादः सादरं हे महेभ्यभूः ! । यद्येवं तन्महाभाग ! पुरेऽस्मिन् भूपतिर्भव ॥६६५॥ सर्वाङ्गीणगुणोत्कर्षं सहर्षं तव वीक्ष्य भोः । दीयमानमिदं राज्यं प्राज्यं भुक्ष्व यदृच्छया ॥६६६॥ दिव्यद्धिभोगसैन्याद्यमन्यद्वापि तवेप्सितम् । वशोऽवश्यं विधास्येऽहं नित्यभृत्य इवानिशम् ॥६६७॥ निःशेषितेषु विद्वेषिक्ष्माकान्तेषु मया रयात् । वर्द्धतां त्वत्प्रतापाग्निस्तत्प्रियाश्रुजलैनवः ॥६६८॥ मदादिसुरसाहाय्याद् भूतले सकलेऽपि ते । एकातपत्रसाम्राज्यमस्तु क्षमाशक्र ! शक्रवत् ॥६६९॥ अत्र साम्राज्यसजुषः शक्रसख्यपुषः श्रिया । स्वर्गेऽप्यनर्गलं स्वर्गाङ्गना गायन्तु ते यशः ॥६७०॥ अथ चिन्तां स्वचित्तान्तश्चकार वसुसारसूः । अहो ! पचेलिमैः पुण्यैर्मह्यं राज्यं ददात्ययम् ॥६७१॥ मया तु प्राग् यतीन्द्राणां सन्निधौ धर्मसन्निधौ । पञ्चमाणुव्रतादाने राज्यादानं न्ययम्यत ॥६७२॥ संप्रति प्रतिपन्नं च पुरतोऽस्य स्वयं मया । यद्वक्ष्यसि करिष्ये तदित्यहो ! विषमं महत् ॥६७३॥ इतोऽवट इतो धाटी इतो व्याघ्र इतस्तटी । इतो व्याध इतः पाशो मामाप्यापतितं ह्यदः ॥६७४॥ एकतः प्रार्थनाभङ्गः परत: स्वव्रतक्षतिः । हा हा कुमारः किं कुर्यात् पतितोऽत्यन्तसङ्कटे ॥६७५॥
३७४