________________
प्रथमः प्रकाशः
३७३
7777
तं भृत्यमिव वीक्ष्याङ्घ्रितलामर्शिनमश्रमम् । रत्नसारः प्रीतिसारः समुत्थाय समालपत् ॥ ६५० ॥ अविज्ञेन तवाऽवज्ञा नृमात्रेणापि यन्मया । व्यधायि यातुधानेन्द्र ! तत् क्षमस्वाऽखिलक्षम ! ||६५१ ॥ भक्त्या ते तुष्टचित्तोऽहं नक्तञ्चर वरं वर । दुःसाध्यमपि साध्यं ते साधयामि ध्रुवं जवात् ॥६५२॥ विस्मितः स ततश्चित्ते चिन्तयाञ्चकृवानहो ! । विपरीतमिदं जज्ञे नरस्तुष्टः सुराय मे ॥ ६५३ ॥ इच्छेत् साधयितुं चैष मम दुःसाध्यमप्यहो ! । अहो ! निपानपानीयं कूपान्तः प्रविविक्षति ॥६५४॥ कल्पद्रुरद्य सेवाकृत्पार्श्वेऽभीप्सितमीप्सति । अर्कोऽप्यद्य प्रकाशार्थं किञ्चित्प्रार्थयिता परम् ॥६५५ ॥ किञ्च किन्नाम दाताऽयं नरः सुखराय मे । किञ्च प्रार्थ्यममर्त्यस्य ममाऽऽस्ते मर्त्यसन्निधौ ||६५६ ॥ तथापि किञ्चिद्याचिष्ये चिन्तयित्वेति चेतसि । उवाच वाचमित्युच्चैर्व्यक्तं नक्तञ्चराग्रणीः ||६५७॥ यः परप्रार्थितं दत्ते त्रैलोक्येऽपि स दुर्लभः । तत्प्रार्थयितुकामोऽपि कुमार ! प्रार्थये कथम् ? ॥६५८ ॥ याचेऽहमिति चिन्तायां चेतःस्थाः सद्गुणाः क्षणात् । वचने तु तनुस्था अप्युद्वजन्ति भयादिव ॥ ६५९ ॥ द्वैधोऽपि मार्गणगणः परपीडाकरः परम् । चित्रमेकः प्रविष्टोऽन्तर्दृष्टोऽपि च परः पुनः ॥६६० ॥ लघुर्धूली तृणं तस्यास्तृणात्तूलं ततोऽनिलः । ततोऽपि याचकस्तस्मादपि याचकवञ्चकः ॥६६१॥ तदुक्तं - परपत्थणापवन्नं मा जणणि जणेसु एरिसं पुत्तं । मा उअरेवि धरिज्जसु पत्थिअभंगो कओ जेण ॥ ६६२ ॥
AAAAAAAJ
श्राद्धविधि
प्रकरणम्