________________
प्रथमः
श्राद्धविधिप्रकरणम्
प्रकाशः
LAAAAAAAAAAAAAA
ध्यात्वेति गत्वा भूतानां प्रभूतानां स संहतीः । समाहूय समायासीत्पत्तीनामिव पार्थिवः ॥६३७॥ उद्घाहितकनीतातमिव निश्चिन्तचेतसम् । तथैव तं च निद्राणं प्रेक्ष्याऽऽचिक्षेप राक्षसः ॥६३८॥ रे निर्मर्याद ! निर्बुद्धे ! रे रे निर्लज्ज ! निर्भय ! । निर्याहि मधु मे हान्नो चेद्युध्यस्व रे मया ॥६३९॥ तस्येत्युक्तेस्तथाभूतोद्भूतात् किलिकिलध्वनेः । त्यक्तनिद्रः कुमारेन्द्रस्तन्द्रालुरिदमब्रवीत् ॥६४०॥ रे राक्षसेन्द्र ! चकृषे विघ्नं वैदेशिकस्य किम् ? । निद्रालोर्मम निद्रायां बुभुक्षोरिव भोजने ॥६४१॥ धर्मनिन्दी पङ्क्तिभेदी निद्राच्छेदी निरर्थकम् । कथाभङ्गी वृथापाकी पञ्चैतेऽत्यन्तपापिनः ॥६४२॥ तन्नव्यसर्पिःसंपृक्तजलेन तल ! घट्टय । शीतलेन तलाछी मे द्राग् निद्रेति यथा पुनः ॥६४३॥ रक्षोऽध्यासीत् किमप्यस्य चरितं जगदद्भुतम् । शक्रस्यापि हृदाकम्पि किं पुनः प्राकृतात्मनाम् ? ॥६४४॥ अहो ! स्वाघ्रितलामर्श मयाप्येषोऽभिलाषुकः । सिंहयानेन चलनमिवाहो निर्भयात्मता ॥६४५।। अहो महासाहसिक्यमहो ! विक्रमशक्रता ! । अहो अस्य महाधाष्ट_महो निःशङ्कचित्तता ! ॥६४६॥ यद्वा किं बहुना ? विश्वविश्वोत्तमशिरोमणेः । सकृदुक्तं करोम्यस्य कृतिनोऽतिथिताभृतः ।।६४७॥ ध्यात्वेति राक्षसस्तस्य प्रक्षयामासिवान् क्षणम् । तलपादौ मृदुकर: सर्पिःशीतलाम्भसा ॥६४८॥ नेक्ष्येत न निशम्येत न संभाव्येत यत् क्वचित् । सतां तदपि सुप्रापमहो ! सुकृतवल्गितम् ॥६४९॥
३७२