________________
प्रथमः
श्राद्धविधिप्रकरणम्
प्रकाशः
AAAAAAAAAAAAAAAA
प्रेक्षावान् प्रेक्षमाणोऽसौ सर्वरत्नमयं क्रमात् । जगाम क्षमापतेर्धाम विमानमिव नाकिराट् ॥६२४॥ नवभिः कुलकम् ॥ गजशाला-वाजिशाला-शस्त्रशालादिकाः क्रमात् । उल्लङ्घयंश्चन्द्रशालामलञ्चक्रे स चक्रिवत् ॥६२५॥ प्रेक्षाञ्चक्रे च तत्रैकं स शक्रशयनीयवत् । शयनीयमनणीयः कमनीयमणीमयम् ॥६२६॥ प्रीतेः शेते स्म तत्रैष निर्भीनिर्भरनिद्रया । श्रमापनुत्त्यै स्वावास इव वासवसाहसः ॥६२७॥ क्रुद्धः प्रेक्ष्य मनुष्याध्रिप्रचारं स निशाचरः । तत्राऽथागान्महाव्याध इव पञ्चास्यपृष्ठगः ॥६२८॥ सुखसुप्तं च तं दृष्ट्वाऽध्यासीद्यद्भयातुमप्यलम् । नान्यस्तल्लीलयाप्येषोऽकार्षीदहह ! धृष्टता ॥६२९॥ तदेनं केन मारेण मारयामि स्ववैरिणम् । नखैरेव फलबोटं त्रोटयाम्यस्य किं शिरः ॥६३०॥ गदया यदि वा सद्यश्चूर्णपेषं पिनष्प्यमुम् । छिनद्मि चर्भटच्छेदं किं वा क्षुरिकया रयात् ॥६३१॥ ज्वलन्नेत्राग्निना रुद्रः स्मरदाहं दहामि वा । आकाशे कुन्दकोल्लालमुच्चैरुल्लालयामि वा ॥६३२॥ मध्येऽन्त्यसिन्धुसौधस्थमेवोत्पाट्य क्षिपामि वा । सुप्तमेव गिलाम्येनं यद्वाऽजगरलीलया ॥६३३॥ यद्वात्रागत्य सुप्तः सन् ही ! हन्येत कथं मया ? । गृहे गौरवमेवारीमागतस्य रिपोरपि ॥६३४॥ यतः-आगतस्य निजगेहमप्यरेगौरवं विदधते महाधियः । मीनमात्मसदनं समेयुषे भार्गवाय गुरुरुच्चतां ददौ ॥६३५॥ तद्यावदेष जागर्ति तावद् भूतव्रजं निजम् । आकारयामि पश्चात्तु करिष्यामि यथोचितम् ॥६३६॥
३७१