________________
प्रथमः
श्राद्धविधिप्रकरणम्
प्रकाशः
योऽद्याऽप्यन्तःपुरं याति तं निहन्ति स तत्क्षणात् । परं विषहते हन्त को वाऽन्तःपुरचारिणम् ॥६११॥ अनेन हेतुना वीर ! वारयामि पुरान्तरा । इव कीनाशवक्त्रान्तस्त्वां विशन्तं हितैषिणी ॥६१२॥ कुमारः शारिकामात्रवाक्चातुर्यहितोक्तिभिः । श्रुत्वेति विस्मयं भेजे तद्भयं न पुनर्मनाक् ॥६१३॥ नैव कौतुकिना भाव्यं भीरुणा नालसेन च । प्रत्युतेत्युत्कतां प्राप प्रवेष्टुं तत्पुरं तदा ॥६१४॥ रक्षःपराक्रमप्रेक्षाकौतुकादकुतोभयः । रणोर्वीमिव वीर: श्राक् स प्राविक्षत्ततः पुरम् ॥६१५॥ तत्र कुत्रापि मलयाचलवच्चान्दनोच्चयान् । स्वर्णाद्यमात्रामत्राणि भृङ्गाङ्गस्वर्द्धवत्क्वचित् ॥६१६॥ क्वापि कर्पूरशाल्यादिसस्यराशीन् खलेष्विव । पूगाद्यगण्यपण्यानि क्वापि सार्थस्थितिष्विव ॥६१७॥ खाद्यापणगणं क्वापि सरोवत्परमोदकम् । क्वचिद् दौष्यिकहट्टोघं शशिवद् विशदांशुकम् ॥६१८॥ निधिवद् घनसाराढ्यान् क्वचित्सौरभिकाट्टकान् । हिमाद्रिवद् गान्धिकाथान् क्वचिच्च विविधौषधीन् ॥६१९॥ बुद्धिहट्टान् भावशून्यान् क्वाप्यभव्याङ्गिपुण्यवत् । सुवर्णैः शास्त्रवत्पूर्णान् क्वापि सौवर्णिकापणान् ॥६२०॥ क्वचनानन्तमुक्ताढ्यान् मुक्तिवन्मौक्तिकापणान् । वनवद्विद्रुमैः पूर्णान् क्वचिद्वैद्रुमिकापणान् ॥६२१॥ रत्नाद्रिवन्मणिवणिग्विपणी: सुमणी: क्वचित् । देवताधिष्ठितान् द्योवत् कुत्रचित्कुत्रकापणान् ॥६२२॥ सर्वत्रापि तु शून्यत्वं सुप्तप्रमत्तचित्तवत् । सश्रीकतां च श्रीकान्तवत्प्रोच्चैः सर्वतोमुखम् ॥६२३॥
३७०