________________
प्रथमः
श्राद्धविधिप्रकरणम्
प्रकाशः
इतस्ततस्तमन्विष्यन् पार्थिवः पारिपन्थिकम् । द्राक् प्रविष्टो मठेऽद्राक्षीत्सलोखं तत्र तापसम् ॥५९८॥ क्रुधोऽभ्यधाच्च वसुधाधिपतिः प्रति तापसम् । दाण्डाजिनिक ! रे दुष्ट ! रे रे तस्कर ! मस्करिन् ! ॥५९९॥ स्तेयं विधाय रे संप्रत्येव सुप्तस्य कैतवात् । अलीकनिद्रां दधतो दीर्घनिद्रां ददामि ते ॥६००॥ भाषितैरिति भूभर्तुर्वज्रपातैरिवोद्धतः । भयोभ्रान्तः स संभ्रान्तः प्रबुद्धोऽप्यभ्यधान्नहि ॥६०१॥ सुभटैर्बन्धयित्वा च निष्कृपेण नृपेण सः । प्रातर्वध्यतयाऽऽदिष्टो धिगहो ! निर्विचारता ॥६०२॥ अविचार्य विना चौर्यमार्या ! मार्योऽस्मि किं ? हहा ! । तस्येत्युक्तिस्तदा सत्याऽप्यभूदधिकधिकृते ॥६०३॥ यदा दैवं विघटते तदा सङ्घटते तु कः ? । एकाक्येव हि चन्द्रोऽपि ग्रस्यते पश्य राहुणा ॥६०४॥ कृतान्तदुर्दान्तभटैरिव भूपभटैस्ततः । विडम्ब्य विविधं मौण्ड्यरासभारोपणादिना ॥६०५॥ प्राणितप्रतिकूलायां शूलायां सोऽध्यरोप्यत । अहो ! प्राकृतदुष्कर्मविपाकः कोऽपि दारुणः ॥६०६॥ युग्मम् । शान्तस्यापि तदा तस्य कोपः प्रादुरभूद् भृशम् । न किं तापितमत्युष्णं जलं स्यादपि शीतलम् ॥६०७॥ विपद्य सद्यः सोऽत्युग्रः समपद्यत राक्षसः । तथावस्थाविपन्नानां स्याद् गतिर्हि तथाविधा ॥६०८॥ तेन रुष्टेन दुष्टेन निकृष्टेन नृपः क्षणात् । एकोऽपि पञ्चतां निन्ये ही राभस्यकृतेः फलम् ॥६०९॥ पुरलोकोऽपि पुरतः सर्वोऽपि निरवास्यत । अविमृश्य कृते राज्ञा पीड्यन्ते हि प्रजा अपि ॥६१०॥
३६९