________________
प्रथम: प्रकाशः
श्राद्धविधिप्रकरणम्
कश्चित्पाटच्चरश्चैतन्नानावेषधरः पुरम् । मुमोष निःशेषमपि दुर्दैवमिव दुर्दमः ॥५८५॥ विचित्राणि स्म खात्राणि दत्ते चित्तेप्सितानि सः । आदत्ते स्वधनैः पात्राण्यमात्राणि भृतान्यपि ॥५८६॥ तलारक्षादिकै रक्षाकरैरप्युत्कटैर्भटैः । न कैश्चित्स्खलयाञ्चक्रे सरित्पूर इव द्रुमैः ।।५८७॥ दिनान्तरे नरेशस्य स्वास्थानीमधितस्थुषः । प्रणम्य सम्यग् विज्ञप्तः पौरैश्चौरकविप्लवः ॥५८८॥ रोषारुणेक्षणेनाथ क्षोणिनाथेन तत्क्षणात् । आह्वानपूर्वमाक्षिप्त आख्यदारक्षकाग्रणीः ॥५८९॥ नास्मिन् व्याधाविवासाध्ये सिध्येत् कापि प्रतिक्रिया । मया नापि मदीयेन नेतस्तेनोचितं कुरु ॥५९०॥ वर्यस्तेजस्विनां राजा धुर्यश्चाथ यशस्विनाम् । तमस्विन्यां स्वयं चौरमन्वैषीन्नष्टचर्यया ॥५९१॥ क्वाप्यन्यदा दत्तखात्रं सलोप्नं तं तमश्चये । भूपो व्यभावयत्किं वा नाप्रमत्तैः प्रसाध्यते ॥५९२॥ तन्निर्णयाय तत्स्थानपरिज्ञानाय चान्वगात् । तं गुप्तवृत्तिर्नृपतिर्बकधूर्त्तस्तिमि यथा ॥५९३॥ धूर्तेन तेन स्तेनेन कथञ्चित्पार्थिवोऽनुगः । जवादवागामि दैवेऽनुकूले वा न किं भवेत् ? ॥५९४॥ प्रत्युत्पन्नमतिः स्तेनपतिस्तत्क्षणतस्ततः । राज्ञः किञ्चिद्वञ्चयित्वा दृष्टिं धृष्टोऽविशन्मठम् ॥५९५॥ तस्मिंश्च नाम्ना कुमुदस्तपःकुमुदचन्द्रमाः । मठे शठेतरप्रष्ठस्तिष्ठन्नस्ति स्म तापसः ॥५९६॥ तस्मिंस्तदानीं निद्राणे मठान्तः स शठाग्रणीः । जीवोक्षतोत्रं लोप्नं तन्मुक्त्वागादन्यतः क्वचित् ॥५९७॥
३६८