________________
प्रथम: प्रकाशः
श्राद्धविधिप्रकरणम्
तथापि क्वापि तच्छुद्धिः स्यादित्याशावशात्क्वचित् । स विवेद न निर्वेदं सतां स्थितिरहो ! श्रिते ॥५७२॥ सहप्रवाससंवाससमयोचितसूक्तिजम् । स शुकार्थं तथा क्लिश्यमानः प्रार्णमशोधयत् ॥५७३॥ इत्थं तदर्थं पृथ्व्यन्तः स बंभ्रम्यद्दिनान्तरे । पुरतः पुरमद्राक्षीत्पुरमैन्द्रमिवापरम् ॥५७४॥ स्वस्फटिकस्फुटस्फारप्राकारपरिवेष्टितम् । प्रतिप्रतोलिमाणिक्यप्रतीहारप्रतिष्ठितम् ॥५७५।। मणीमयमहासौधसमूहै रोहणायितम् । सहस्रमुखभृद्गङ्गायितं सौधध्वजव्रजैः ॥५७६॥ त्रिभिर्विशेषकम् ॥ पुरस्य श्रीविशेषेणाक्षिप्तचित्तः स सत्तमः । भ्रमरः सौरभेणेवाम्भोजस्याभ्याशमासदत् ॥५७७॥ हरिचन्दनदारूद्यत्कपाटोल्लासिसौरभम् । विश्वश्रीणां मुखमिव विशेद्यावच्च गोपुरम् ॥५७८॥ तावद्वप्रोपरिष्ठात्र्या वरसारिकयैकया । प्रतीहार्येव नितमामार्यवर्यो न्यवार्यत ॥५७९॥ विस्मितेन ततस्तेन वितेने वाक्यमुच्चकैः । हेतुना केन मां भद्रे ! निवारयसि ? शारिके ! ॥५८०॥ सापि प्राह महाप्राज्ञ ! तवैव हितहेतुना । जिजीविषुर्यदि तदा मा विशैतत्पुराऽन्तरा ॥५८१॥ मा स्म मंस्था वृथैवेयं शारिका विनिवारिका । पक्षिजातौ हि वयमप्युत्तमत्वं लभामहे ।।५८२॥ वाङ्मात्रमपि जल्पन्ति विना हेतुं न चोत्तमाः । हेतुव्यक्ति यदि पुनर्जिज्ञासुस्तर्हि तां शृणु ॥५८३॥ अस्मिन्पुरे रत्नपुरे पुरन्दर इवापरः । पराक्रमप्रभुत्वाभ्यामभूभृपः पुरन्दरः ॥५८४॥
३६७