________________
प्रथम: प्रकाशः
श्राद्धविधिप्रकरणम्
AAAAAAAAAAAAAAAAA
स पुरस्तात्कुमारस्तु पृष्ठतः शीघ्रगामिनौ । लब्धलक्षौ ललचाते लघु दुर्गगृहाद्यपि ॥५५९॥ तस्य तेजोऽनुसारेणाऽनुसरन्नथ पान्थवत् । दुष्टाग्रण्येव निन्येऽसौ तेन दूरतरं क्वचित् ॥५६०॥ कथञ्चिन्मिलितश्चायं यावद्दाव इव क्रुधा । पारिपन्थिकवज्जीवग्राहं गृह्णाति तं द्रुतम् ॥५६१॥ तावद्गरुडवद्वेगादुत्पपात नभस्तले । पश्यतोऽपि कुमारस्य स नरः पश्यतोहरः ॥५६२॥ कियडूरं कुमारेण दृष्टः स व्योमनि व्रजन् । ततः परं न दृष्टश्च नष्टस्तस्य भयादिव ॥५६३॥ विस्मयाच्चिन्तयामास कुमारोऽथ मम ध्रुवम् । कोऽप्येष वैरी विद्याभृद्देवो वा दानवोऽथवा ॥५६४॥ अस्तु वा योऽपि सोऽप्येष किं मामपकरिष्यति ? । कीररत्नं हरन् किन्तु द्विधा दस्यूयितं व्यधात् ॥५६५॥ हा विज्ञकोटीकोटीर ! कीर ! हा धीर ! वीर ! मे । दाता सूक्तिश्रुतिसुखं कस्त्वां प्रियसखं विना ? ॥५६६॥ विधुरे धीरधौरेय ! सहायस्त्वां विहाय मे । को भावीति ? क्षणं खेदं कृत्वाऽन्तर्विममर्श सः ॥५६७॥ मृषाकृतादमुष्माद्वा किं विषादविषादनात् ? । यथार्होपक्रमादेव नष्टप्राप्तिर्भवेद्यदि ॥५६८॥ उपक्रमेऽपि साफल्यमैकाग्रयेणैव नान्यथा । मन्त्रादयोऽपि नैकाग्र्यं विना सिद्ध्यन्ति कर्हिचित् ॥५६९॥ तस्मात्कीरेन्द्रमप्राप्य न निवर्ते कथञ्चन । इति निश्चित्य कृत्यज्ञस्तं भ्रमन्नन्वियेष सः ॥५७०॥ उच्चैरपि चरंश्चौरानुसृतां दिशमश्रमम् । क्वापि प्राप न तं व्योम्नि गतं भूमौ क्व वाप्यते ? ॥५७१॥
३६६