________________
प्रथमः प्रकाशः
३६५
तत्र स्थितः कुमारेन्द्रः स्वर्गं गत इवाऽङ्गभृत् । सस्मार स्फारसारश्रीर्नैव प्राच्यस्य कस्यचित् ॥ ५४६ ॥ सौख्योत्कर्षेण तस्यैवं वर्षे हर्षेण जग्मुषि । क्षणवत्क्षणवद्दैवाद्यद्बभूव भणामि तत् ॥ ५४७ ॥ दुष्टात्मनां क्षणदायां क्षणदायां कदाचन । समासाद्य चिरं कीरश्रेष्ठगोष्ठीसुधारसम् ॥५४८॥ रत्नाकरे वासवेश्मवरे स पुरुषोत्तमः । सुखेन सुखशय्यायां सुष्वाप स्वापमाप च ॥५४९ ॥ युग्मम् । निशीथेऽथ तमोवीथीव्यर्थिताखिलचक्षुषि । यामिकेष्वपि निद्रायमाणेषु निखिलेष्वपि ॥५५० ॥ दिव्याकारधरः स्फारसारशृङ्गारभासुरः । चौरचारचरः कृष्टकरवालस्फुरत्करः ॥५५१॥ सर्वतोऽपि कपाटेषु नेत्रवन्मुद्रितेष्वपि । पुरुषः सरुषस्तत्र कुतश्चित्कश्चिदाययौ ॥५५२ ॥ त्रिभिर्विशेषकम् । तस्मिन् प्रविष्टे प्रच्छन्नमपि दैवे तु दैवतः । जजागार कुमारः स्त्राक् स्वल्पनिद्रा हि साधवः ॥ ५५३ ॥ कोऽयं कथं किमर्थं वा प्राविशद्वासवेश्मनि ? । कुमारराजश्चित्तान्तर्यावदित्याद्यचिन्तयत् ॥५५४ ॥ सोऽपि कोपित्वदुर्द्धर्षः प्रावदत्तावदुच्चकैः । रे रे कुमार ! वीरश्चेत्सज्जीभव युधे तदा ॥५५५॥ मृषा पुरुषकारं ते वणिमात्रस्य विश्रुतम् । धूर्त्तस्येव शृगालस्य सहेऽहं सिंहवत्कथम् ? ॥५५६ ॥ ब्रुवन्नेवेत्यसौ कीरमञ्जुपञ्जरमञ्जसा । हृत्वा चचाल प्रोत्तालश्छद्माऽहो ! छद्मवेदिनः ॥५५७॥ कोशान्निष्कास्य निस्त्रिंशं बिलादिव भुजङ्गमम् । कुमारोऽप्यन्वधाविष्ट क्रोधाविष्टमना द्रुतम् ॥५५८॥
श्राद्धविधिप्रकरणम्