________________
प्रथमः
श्राद्धविधिप्रकरणम्
प्रकाशः
अत्याश्चर्यं त्वपूर्यन्त चक्रेश्वर्याऽस्य यत्तदा । पितृमात्राद्यसम्बन्धेऽप्यभीष्टा भोगसंपदः ॥५२२॥ प्राचीनपीनपुण्यस्याऽभ्युदये किमु वाऽद्भुतम् ? । गङ्गादेव्याऽभुक्तभोगान्नृत्वेऽपि भरतश्चिरम् ॥५२३॥ देव्यादिष्टश्चन्द्रचूडस्तद्वधूवरवृत्ततः । नृपं वर्धापयामास कनकध्वजमन्यदा ॥५२४॥ स्फीतप्रीतिः क्षितीशोऽपि दर्शनोत्कण्ठया स्यात् । प्रेर्यमाणः परप्रेम्णा निर्ययौ निजसैन्ययुक् ॥५२५॥ शुद्धशुद्धान्तसामन्तमन्त्रिश्रेष्ठ्यादिभिर्वृतः । तत्राल्पैरेव दिवसैः ससैन्यः सममागमत् ॥५२६॥ कुमारकीरकन्याद्यैः सद्यः सम्मुखमागतैः । संभ्रमेण प्रणेमेऽसौ गुरुः शिष्यवररिव ॥५२७॥ स्वजनन्या च ते कन्ये निःसामान्येन केनचित् । सञ्जग्मातेतमा प्रेम्णा धेन्वा वत्से इवोत्सुके ॥५२८॥ विश्वसारं कुमारं तं दिव्यद्धि च विलोक्य ताम् । नृपः सपरिवारस्तं परमाहममानयत् ॥५२९॥ अथातिथ्यं कामगव्या इव देव्याः प्रसादतः । ससेनस्य रसेनस्य द्राक् चकार कुमारराट् ॥५३०॥ तद्भक्त्या रञ्जितो राजा नोत्सुकोऽप्यौत्सुकायत । प्रयातुं स्वपुरी को न दिव्यर्या प्रतिबध्यते ॥५३१॥ तत्तद्भक्त्या कुमारस्य तत्तीर्थस्य च सेवया । तान्येव सुदिनाहानि मेनिरेऽवनिपादिभिः ॥५३२॥ यथा कृतार्थिते एते कन्ये धन्येन भोस्त्वया । तथा कृतार्थयाऽद्यापि पुरीं नः पुरुषोत्तम ! ॥५३३॥ इत्थमत्यर्थमभ्यर्थ्य पार्थिवः स्वार्थविन्निजाम् । पूरी प्रति प्रतस्थेऽथ कुमाराद्यैः सहाऽन्यदा ॥५३४॥
३६३