________________
प्रथम: प्रकाशः
श्राद्धविधिप्रकरणम्
तस्यामेवं विलापिन्यां सुसखेव सखेदहृत् । चन्द्रचूडोऽम्बुना सिक्त्वा तां स्वशक्त्या की व्यधात् ॥४८३॥ वाग्देवीव नवोत्पन्ना पद्मेवाब्धेर्विनिर्गता । कुमारादेर्मुदद्वैतहेतुः सा दिद्युते तदा ॥४८४॥ संरंभात्परिरेभाते भगिन्यौ ते उभे ततः । पुलकच्छलमुत्पूराङ्करे प्रेम्ण इयं स्थितिः ॥४८५॥ कुमारः कौतुकात् प्रोचे ततस्तिलकमञ्जरि ! । पारितोषिकमस्माभिः सुभ्रु ! लभ्यमिह ध्रुवम् ॥४८६॥ वदेन्दुवदने ! तत्कि देयं देहि च तद्रुतम् । औचित्यदानाद्यादाने धर्मे च चिरयेन्नु कः ? ॥४८७॥ लञ्चौचित्यादिदानर्णहुड्डासूक्तभृतिग्रहे । धर्मे रोगरिपुच्छेदे कालक्षेपो न शस्यते ॥४८८॥ क्रोधावेशे नदीपूरप्रवेशे पापकर्मणि । अजीर्णभुक्तौ भीस्थाने कालक्षेपः प्रशस्यते ॥४८९॥ ह्रीकम्पस्वेदरोमाञ्चलीलाविच्छित्तिविभ्रमैः । विकारैर्बहुधा विद्धाऽभ्यधान्मुग्धाऽथ धैर्यभृत् ॥४९०॥ सर्वस्वमेव ते देयं सर्वाङ्गीणोपकारिणे । तद्दानसत्यङ्कारस्तु स्वामिन्नेष विभाव्यताम् ॥४९१॥ इत्युदित्वा प्रमुदिता स्वं चित्तमिव मूर्तिमत् । हृदि न्यास्थत् कुमारस्य मुक्ताहारं मनोहरम् ॥४९२॥ अत्यादरान्निरीहोऽपि कुमार: स्वीचकार तम् । इष्टप्रदत्तमादातुं प्रयोक्त्री प्रीतिरेव हि ॥४९३॥ कीरोऽप्यम्भोजराजीभिरभ्यर्च्यत तया रयात् । नान्यथा स्यादुत्तमानां वाङ्मात्रमपि कुत्रचित् ॥४९४॥ औचित्यकृत्यनिस्तन्द्रश्चन्द्रचूडस्तदाऽवदत् । दत्ते तुभ्यमुभे कन्ये प्राग् दवेन मयाधुना ॥४९५॥
३६०