________________
प्रथमः
प्रकाशः
३५९
क्षणादीर्ष्यादुर्निरीक्ष्या मूर्च्छन्मत्सरदुर्द्धरा । ततः साऽभूद्भामिनीनामियं प्रकृतिरेव हि ॥४७० ॥ सख्या इव स्वविद्यायाः सा तद्वृत्तान्तमादितः । ज्ञात्वा स्वशल्यमिव तां पञ्जरान्निरकासयत् ॥४७१॥ सपत्नीभावमाशङ्क्य तया निष्कास्यते स्म सा । तस्यास्तु योगाद्भाग्यानामिष्टमेवाजनिष्ट तत् ॥ ४७२॥ खेचरेन्द्रगृहात्तस्मान्नरकादिव निर्गता । उद्दिश्य शबरसेनामटवीमटति स्म सा ॥ ४७३ ॥ खेटपृष्टागमाऽऽशङ्कातङ्कात्याकुलमानसा । धनुमुक्तेषुवद् वेगाद्यान्ती श्रान्तीबभूव च ॥ ४७४ ॥ सा च भाग्यैरिवाकृष्टा विश्रामार्थमिहाययौ । त्वां चालोक्य तवैवाङ्कपङ्कजान्तर्न्यलीयत ||४७५ ॥ साहं हंसी कुमारेन्द्र ! खेचरेन्द्रः स एव च । ध्रुवं मत्पृष्टमायातस्तत्क्षणाच्च जितस्त्वया ॥४७६ ॥ ज्ञात्वेति स्वस्वसुवृत्तं ततस्तिलकमञ्जरी । तद्दुःखाद्विललापैवं प्रोच्चैः स्त्रीणामियं स्थितिः ॥४७७॥ कथमस्थास्तापसत्वे स्वामिन्येकाकिनी हहा ! । अरण्यान्यां राजधान्यां भयानां धिग् विधेर्विधिम् ॥४७८॥ हा ! कथं ? पञ्जरे दुःखवासिनां सुखवासिनि ! । विषेहिषे दुर्विषहां पशुगर्भम् इवामरी ॥४७२॥ आर्ये ! तिर्यक्त्वभावस्ते भवेऽत्रापि हहाभवत् । धिग् धिग् विधेनर्टस्येव सत्पात्रेऽपि विडम्बना ॥ ४८० ॥ प्राग्भवे कौतुकात् कस्याप्यकारि विरहस्त्वया । ध्रुवं मयोपेक्षितश्च फलं तस्य किमप्यदः ||४८१ ॥ हा ! हन्त ! हततिर्यक्त्वं तव दुर्दैवसंभवम् । दूरीभावि कथङ्कारं दौर्भाग्यमिव जङ्गमम् ॥४८२॥
4444
श्राद्धविधि
प्रकरणम्