________________
प्रथमः
श्राद्धविधिप्रकरणम्
प्रकाशः
AAAAAAAAAAAAAAAAA
साऽऽह साहसमालम्ब्य भो च्छलेन बलेन च । छलिभिर्बलिभिश्चापि राजद्धाद्येव साध्यते ॥४५७॥ न पुनः प्रेम कुत्रापि छलादुत बलाद्भवेत् । चित्तयोरेव सारस्ये प्रेमाङ्करस्य रोहणम् ॥४५८॥ विना स्नेहं च सम्बन्धः कः स्यान्मोदकबंधवत् । द्रव्यात् सम्बन्धकादेव सम्बन्धः काष्ठयोरपि ॥४५९॥ तत्प्रार्थयेत निःस्नेहं को मूर्खादपरः परम् ? । यो ह्यस्थानेऽपि निर्बन्धी धिग् धिक् तं मन्दमेधसम् ॥४६०॥ ततः क्रुद्धः सनिस्त्रिंशः कृष्ट्वा निस्त्रिंशमञ्जसा । प्राह संप्रति हन्ताऽस्मि रे रे ! मामपि गर्हसे ॥४६१॥ साचष्ट दुष्ट रेशनिष्टसम्बन्धान्मरणं वरम् । मां न मोक्ष्यसि चेत्तद्द्राग् मा विचारय मारय ॥४६२॥ ततस्तस्याः शुभैर्जातचिन्तश्चिन्तितवानसौ । हा धिङ्मया किमारब्धमीदृग् दुर्बुद्धिचेष्टितम् ॥४६३॥ जीवितं स्याद्यदायत्तं जीवितेशा च येप्स्यते । हन्त तस्यां कथं कुर्यात् ? पुरुषः परुषं रुषा ॥४६४॥ सामवृत्त्यैव सर्वत्र प्रेमप्रभवसंभवः । विशिष्य नार्यां यत्प्रोचे पाञ्चालः स्त्रीषु मार्दवम् ॥४६५॥ ध्यात्वेति न्यस्तवानन्तःकोशमुल्लासिमानसः । सद्यः कृपाणं कृपणाग्रणीरिव निजं धनम् ॥४६६॥ कामकर्या विद्ययाऽथ तां चकार मरालिकाम् । नृभाषाभाषिणीमेष सृष्टिकर्तेव नूतनः ॥४६७॥ ततः प्रक्षिप्य माणिक्यपञ्जरे तामजर्जरे । प्राग्वत् प्रसादयामास सादरं स निरन्तरम् ॥४६८॥ कुर्वन् पटूनि चाटूनि स्पष्टं दृष्टोऽन्यदा च सः । शङ्कितस्वान्तया तस्य कान्तया कमलाह्वया ॥४६९।।
३५८