________________
प्रथमः
श्राद्धविधिप्रकरणम्
प्रकाशः
AAAAAAAAAAAAAAAA
इत्यादि चिन्तयन्ती सा न किञ्चित्प्रत्यवोचत । स्पष्टितानिष्टचेष्टं कः प्रत्याचष्टेऽपि शिष्टधीः ॥४४४॥ जननीजनकाद्यैः स्वजनैविरहिताऽधुना । एषाऽऽदुःखापि सुखान् मां क्रमात्कामयिष्यते ॥४४५॥ इत्याशया कामकरी सर्वकामकरी मुदा । हृद्यां विद्यां स सस्मार स्वं शास्त्रमिव शास्त्रिकः ॥४४६॥ तत्प्रभावाच्च तद्रूपगोपनार्थं स निर्ममे । तापसकुमाररूपां कन्यां नट इव स्फुटः ॥४४७॥ नानाप्रकारः सत्कारैर्यक्कारैरिव तां प्रति । अपारैरुपचारैश्च प्रचारैर्विपदामिव ॥४४८॥ तां तद्रूपां तथा प्रेमालापैक्पैरिवाहसाम् । निःसत्त्वः सान्त्वयामास कियत्कालं स बालधीः ॥४४९॥ यमलम् । तत्सर्वं भस्मनि हुतं प्रवाहे मूत्रितप्रभम् । तस्यामासीद् दूषरोया॑मिव वापोक्षणादिकम् ॥४५०॥ निष्फलायाः प्रक्रियाया न व्यरंसीत्तथापि सः ! जातचित्तभ्रमस्येव कामिनः कोऽप्यहो ! ग्रहः ॥४५१॥ तस्मिन्ननार्यकार्येण प्राप्ते स्वपुरमन्यदा । स तापसकुमारस्त्वां ददर्शान्दोलनोद्यतः ॥४५२॥ स विश्वस्तः स्ववृत्तं ते यावता वक्ति तावता । खेटस्तत्राप्तस्तं जहे सोऽर्कतूलमिवानिलः ॥४५३॥ नीत्वा निजपुरे दिव्यमन्दिरे मणिभासुरे । क्रुद्धोऽभ्यधत्त रे मुग्धे ! विदग्धेव विदग्धवाक् ॥४५४। कुमारेण समं प्रेम्णा ब्रूषेऽन्येनापि केनचित् । मम तु त्वद्वशस्यापि दत्से प्रतिवचोऽपि न ॥४५५॥ युग्मम् । मामद्यापि प्रपद्यस्व मुञ्चस्व स्वकदाग्रहम् । अन्यथा ते व्यथाहेतुः कृतान्तः कुपितोऽस्म्यहम् ॥४५६॥
३५७