________________
प्रथमः
श्राद्धविधिप्रकरणम्
प्रकाशः
AAAAAAAAAAAAAAAA
तादृग्विधोऽपि क्रोधान्धः स दुर्द्धरतया स्यात् । विद्यया बहुरूपिण्या रूपाणि बहुधा व्यधात् ॥४०५॥ लक्षसङ्ख्यानि रूपाणि तथारूपाणि तस्य खे । जगतोऽपीतिरूपाणीवात्याहितकृतेऽभवन् ॥४०६॥ कल्पान्तानल्पभीष्माभ्रपटलैरिव तैस्तदा । अप्यन्तरिक्षं दुर्लक्षं विष्वग् व्याप्ततयाभवत् ॥४०७॥ व्यापारयत् कुमारश्च स्वनेत्राणि यतो यतः । एकं दोर्जालदुर्दशं तं ददर्श ततस्ततः ॥४०८॥ व्यसेष्मयीत्तथाप्येष नाभैषीदीषदप्यहो ! । किं वा कल्पान्तपातेऽपि धीराः स्युः कातराः क्वचित् ॥४०९॥ प्राहार्षीद्विष्वगप्येष लक्ष्यकक्षां विना ततः । विशिष्य व्यवसायो हि विधुरे धीरचेतसाम् ॥४१०॥ दृष्ट्वा कुमारं विकटस्फुटसण्टङ्किसङ्कटम् । गरिष्ठमुद्गरकर: सुरस्तं हन्तुमुत्थितः ॥४११॥ तं भीमरूपमायान्तं गदापाणिमिवोचितम् । दुःशासनः खेचरेन्द्रश्चक्षोभ रभसेन सः ॥४१२॥ धृतधैर्यप्रकर्षश्च तं सुरं प्राहरत्तराम् । रूपैः सर्वैर्भुजैः सर्वैः सर्वशक्त्या स सर्वतः ॥४१३॥ तस्मिन्नचिन्त्यशक्तित्वात्कुमाराद्भुतभाग्यतः । आसन् वन्ध्या द्विट्प्रहारा उपकाराः खले यथा ॥४१४॥ रूपं मुख्यमथाऽमुष्य मूलि क्रोधोद्धरः सुरः । शैलं वज्रेण वज्रीव मुद्गरेण निजनिवान् ॥४१५॥ सुपर्वणा सर्वशक्त्या प्रदत्ताद् घाततस्ततः । निर्घातः कातरप्राणापहारी कोऽप्यभून्महान् ॥४१६॥ विद्योन्मदिष्णोस्त्रैलोक्यजिष्णोविष्णोरिवास्य च । तेन मूनि दृढो वज्रवन्न यद्यप्यभिद्यत ॥४१७॥
३५४