________________
प्रथमः
श्राद्धविधिप्रकरणम्
प्रकाशः
AAAAAAAAAAAAAAAA
एवं च सेल्लवावल्लतीरीतोमरतबलैः । अर्द्धचन्द्रार्द्धनाराचनाराचप्रमुखैरपि ॥३९२॥ विशेषविशिखैस्तीक्ष्णशिखैः सङ्ख्यमसङ्ख्यशः । महाक्रोधौ महायोधौ विदधाते चिरेण तौ ॥३९३॥ युग्मम् । अदीनयोस्तदानीमप्युभयोः सांयुगीनयोः । तयोर्महाकितवयोरिवाभूज्जयसंशयः ॥३९४॥ क्रमाद्विद्याबलाद् दिव्यबलात् प्रबलयोस्तयोः । वालिपौलस्त्यवत् क्षिप्रं कथं वा जयनिर्णयः ? ॥३९५॥ न्यायधर्मबलाधिक्यात् क्रमादथ कुमारराट् । चटत्प्रकर्षतां भेजे सन्न्यायोपात्तवित्तवत् ॥३९६॥ विलक्षः खेचरेन्द्रोऽथ वहन् हारितमानिताम् । समयुद्धस्थिति त्यक्त्वा डुढौके सर्वशक्तितः ॥३९७॥ विंशत्याऽपि हि बाहाभिर्विविधैरायुधैश्च सः । प्रहरन् सहस्रबाहुरिवाभूदतिदुस्सहः ॥३९८॥ नूनमन्याययुद्धेन च कश्चिद्विजयी क्वचित् । इत्युच्चकैस्तदोत्सेहे कुमार: सुविचारधीः ॥३९९।। प्रहारान् खेचरेन्द्रस्य तुरगेन्द्रप्रयोगतः । वञ्चयंश्चाखिलान् क्षिप्रं क्षुरप्रं बाणमाददे ॥४००॥ क्षुरप्रेण क्षुरेणेव तस्य प्रहरणानि सः । चिच्छेदच्छेदमर्मज्ञोऽखिलान्यलकलीलया ॥४०१॥ अथैकेनार्द्धचन्द्रेण निस्तन्द्रेण रणेऽमुना । तस्य कोदण्डदण्डोऽपि द्राग् द्विखण्डो व्यधीयत ॥४०२॥ अपरेण च दुर्बोधोऽप्यविध्यत स वक्षसि । अहो वणिक्कुमारस्याऽप्यसमः कोऽपि विक्रमः ॥४०३॥ निरस्त्रः खेचरेन्द्रोऽभून्निष्पन्न इव पिप्पलः । विद्धोरस्कोऽद्रवदसृग् द्रवल्लाक्षाद्रवः किल ॥४०४॥
३५३