________________
प्रथम: प्रकाशः
श्राद्धविधिप्रकरणम्
AAAAAAAAAAAAAAAA
नैव मुञ्चामि कल्पान्तेऽप्येतां रे शरणागताम् । जिघृक्षसे तथाप्येनां धिक् फणीसमणीमिव ॥३७९॥ स्पृहामस्या विहायाशु दूरेऽपसर रे न चेत् । करिष्ये दशशीर्ध्या ते दशदिक्स्वामिनां बलिम् ॥३८०॥ अत्रान्तरे कुमारेन्द्रसहायकचिकीः स्वयम् । रूपं कलापिनस्त्यक्त्वा कृत्वा रूपं सुपर्वणः ॥३८१॥ चन्द्रचूडसुरः सज्जविविधायुधधोरणिः । कुमारान्तिकमाहूत इवागात् सुकृतान्यहो ! ॥३८२॥ अवादीच्च कुमारेन्द्र ! युद्धं कुरु यथारुचि । शस्त्राणि पूरयिष्यामि चूरयिष्यामि ते द्विषम् ॥३८३॥ ततो द्विगुणमुत्साहमुवाह स सुदुःसहम् । प्राप्तपक्षरहर्यक्षपक्षयुक्तक्षकादिवत् ॥३८४॥ ततस्तिलकमञ्जर्या हंसी न्यस्य कराम्बुजे । सज्जीभूयाऽऽरुरोहाऽश्वं स सुपर्णमुपेन्द्रवत् ॥३८५॥ चन्द्रचूडश्च कोदण्डं गाण्डीवश्रीविडम्बिनम् । तस्मै तूर्णं सतूरीणं नियुक्त इव दत्तवान् ॥३८६॥ स तदोद्दण्डदोर्दण्डे चण्डकोदंडमण्डलम् । उच्चैरास्फालयन्नाप स्फालकाल इवामुना ॥३८७॥ धनुर्गुणटणत्कारमुखरीकृतदिङ्मुखम् । योधधुर्यों शरैयुद्धं प्रारेभाते उभावथ ॥३८८॥ बाणकर्षणसन्धानमोचनादिक्रियाक्रमः । तदा नालक्षि दक्षैरप्युभयोलघुहस्तयोः ॥३८९॥ किन्तु वर्षणमेवैक्षि विशिखानां शुकादिभिः । सद्यस्काम्बुधरासारे क्रमस्याधिगमः क्व वा ? ॥३९०॥ अविहस्तयोस्तयोश्च प्रकृत्या कृतहस्तयोः । सरव्यतां शरा एव शराणामैयरुर्मिथः ॥३९१॥
३५२