________________
प्रथमः
प्रकाशः
३५१
केकिनं द्वितयेनाक्ष्णा सस्पृहं च सकौतुकम् । द्वितीयेन जिनेन्द्रार्चां सोल्लासं च सभक्ति च ॥३६६ ॥ सामर्षं च सरोषं च, कुमारमुभयेन च । उभयेन च तत्तेजः सभयं च सविस्मयम् ॥३६७॥ एवं निजभुजस्पर्धादिव व्यापारवत्तरैः । विंशत्योद्भावयन् भावान् भिन्नान् भिन्नान् स्वलोचनैः ॥३६८॥ कृतान्त इव दुर्दान्तः कल्पान्त इव दुःसहः । विश्वक्षोभकृदुत्पात इवोत्तस्थे वियत्-पथे ॥ ३६९ ॥ एकविंशत्या कुलकम् । दशास्यमिव तं साक्षाद् भीषणेभ्योऽपि भीषणम् । दुःप्रेक्ष्यं प्रेक्ष्य कपिवत् कीरः स्त्रक्त्रासमासदत् ॥३७०॥ तादृक्षस्य मुखे को वाऽभिमुखीभावमावहेत् ? । को वा दावानलज्वाला ज्वलन्तीः पातुमुत्सहेत् ? ॥३७१॥ त्रस्तः कुमारं श्रीरामं शरणीचकृवांश्च सः । तादृग् भये ततः कः स्यादितरः शरणोचितः ? ॥३७२॥ हक्कयांश्चकृवांश्चैवं कुमारं खेचरेश्वरः । रे रे दूरं पलायस्व नान्यथाऽद्य भविष्यसि ॥ ३७३ ॥
रे मज्जीवितसर्वस्वं हंसीवोत्सङ्गसङ्गताम् । कुवन्ननार्य ! निर्लज्ज ! निर्मर्याद ! निरङ्कुश ! ॥३७४॥ अरे ! निर्भय ! निःशङ्क ! मत्पुरोऽद्यापि तिष्ठसि । नित्यदुःखीव वा नूनं क्षिप्रं मूर्ख ! मुमूर्षसि ॥ ३७५॥ युग्मम् । शुके पश्यति साशङ्कं कलापिनि सकौतुकम् । सत्रासं पद्मनेत्रायां हंस्यामपि ससंशयम् ॥३७६॥ हसन्नाह कुमारोऽपि किं रे भापयसे ? मुधा । बिभीषिकोन्मिषेदेषा बालं प्रति परं न तु ॥ ३७७ ॥ त्रस्यन्ति तालिकाघाताद् द्रुतमन्ये पतत्रिणः । न पुनः पटहध्वानधृष्टा मठकपोतकाः ॥ ३७८ ॥
AAAAA
श्राद्धविधिप्रकरणम्