________________
प्रथमः
प्रकाशः
३५५
7777
तदप्यस्य महाविद्या भीतेव बहुरूपिणी । काकनाशं ननाश द्राक् सुरस्याहो ! सहायता ॥४१८॥ प्रकृत्याऽपि कुमारोऽयं रक्षोवद् भीषणो द्विषाम् । दुर्निरास्यः सखा चास्य सुपर्वाग्नेरिवानिलः ॥ ४१९ ॥ इत्थं निर्धार्य निधैर्यधुर्यवत् खेचराधिपः । पलायते स्म प्रोक्तं च यः प्रयाति स जीवति ॥४२० ॥ इष्टां प्रनष्टां स्वां विद्यां द्रष्टुं झटिति पृष्ठतः । स सावेगं दधावे च द्विधाऽपि पदिकाग्रणीः ॥ ४२१ ॥ एकापाये परापायः सन्नियोगैकशिष्टयोः । इतीव विद्यालुग्भावे सोऽपि लुग्रूपतां गतः ॥४२२॥ सह तेनैव नेशुश्च खेचरास्तस्य किङ्कराः । यद्वा प्रदीपे विध्माते तिष्ठन्ति किमु तत्विषः ? ॥४२३॥ सुकुमारः कुमारः क्व ? क्व कठोरश्च खेचरः ? । तमजैषीत्तदप्येष यतो धर्मस्ततो जयः ॥४२४॥ दुर्जयारिजयात्प्राप्तोत्कर्षेणाऽनिमिषेण सः । नृदेवः सेवकेनेव सह प्रासादमासदत् ॥४२५॥ कुमारस्येति चरितं चमत्कृतिकरं परम् । व्यालोक्योल्लासिपुलकाऽध्यासीत्तिलकमञ्जरी ||४२६ ॥ त्रैलोक्यैकशिरोरत्नं नृरत्नं कोऽप्ययं युवा । भर्त्तेदृग् लभ्यते भाग्यैर्भगिन्याः सङ्गतिर्यदि ॥४२७॥ इत्यौत्सुक्यत्रपाचिन्ताभृतस्तस्याः सकाशतः । मरालिका बालिकावत् कुमारेण समाददे ॥ ४२८ ॥ हंसी स्माह कुमारेन्द्र ! धीर ! धीरधुरन्धर ! । वीरप्रवीरकोटीर ! चिर जीव चिरं जय ॥४२९ ॥ वराक्या रङ्कयाऽत्यर्थाऽऽतयाऽनार्यया मया । स्वकृते यत् खेदितोऽसि विश्वक्षम ! क्षमस्व तत् ॥४३०॥
श्राद्धविधिप्रकरणम्