________________
प्रथमः
श्राद्धविधिप्रकरणम्
प्रकाशः
AAAAAAAAAAAAAAAA
परं शबरसेनायामटव्यां दिव्यदेहभृत् । दोलाधिरूढः सुप्रौढयौवनश्रीमनोरमः ॥३०७॥ वाङ्माधुर्यवयोरूपस्वरूपैः सदृशस्तव । तापसेन्द्रकुमारः प्राङ्मयाऽदर्शि सुदर्शने ! ॥३०८॥ युग्मम् । तस्य स्वाभाविकप्रेमोपचारविरहस्मृतेः । दलच्चलज्ज्वलदिवाऽद्यापि हृन्मे मनस्विनि ! ॥३०९॥ स त्वमेव स एव त्वं यद्वा सा ते स्वसैव सः । विधेविलसितं हन्त ! किञ्चिद्वाचामगोचरम् ॥३१०॥ तावत्कीर: कलकलं कुर्वन्नाख्यदखर्ववाग् । हुं हुं कुमार ! प्राग् ज्ञातं मयाऽऽख्यातं च ते ह्यदः ॥३११॥ नूनं कन्यैव स मुनिकुमारोऽस्याः स्वसैव च । मज्ज्ञानाद् मासपूर्तेश्च मेलिताऽद्य कथञ्चन ॥३१२॥ विश्वसारं स्वसारं चेदद्येक्षिष्ये तदा मुदा । निमित्तज्ञाय ते कीर ! करिष्येऽर्चनमम्बुजैः ॥३१३॥ इत्थं तिलकमञ्जर्या कुमारेण तु सादरम् । साधु साध्वभ्यधाः प्राज्ञेत्युपाबंहि विहङ्गराट् ॥३१४॥ इतश्च मणिसिञ्जानम मञ्जीरराजिनी । वियतः प्रपतच्चन्द्रमण्डलीभ्रमदायिनी ॥३१५॥ सितच्छदाभिः सामर्षं सानुरागं सितच्छदैः । वीक्ष्यमाणा कुमाराद्यैरपि सप्रतीतिविस्मयैः ॥३१६॥ अतिदीर्घनभोमार्गोल्लङ्घनश्रमविह्वला । कुमाराङ्कसरस्येका हंसी दिव्या व्यलोलुठीत् ॥३१७॥ त्रिभिर्विशेषकम् । सा साध्वसवशात् कम्प्रदेहा स्नेहादिवोच्चकैः । पश्यन्त्यास्यं कुमारस्य भाषते स्म नृभाषया ॥३१८॥ सात्त्विकश्रेणिमाणिक्य ! शरणागतवत्सल ! त्रातस्त्रायस्व त्रायस्व कृपासार ! कुमार ! माम् ॥३१९॥
३४६