________________
प्रथमः
श्राद्धविधिप्रकरणम्
प्रकाशः
तत्रान्यदपि ते सर्वं शुभं भावि सुनिश्चितम् । यद्वा देवाधिदेवस्य सेवया किं न सिद्ध्यति ? ॥२९४॥ यदि सुभ्र ! ब्रवीष्येवं तस्मिन् दूरतरेऽन्वहम् । जिनार्चार्थं कथं यामि ? पश्चादायामि वा कथम् ? ॥२९५॥ भणामि शृणु सुश्रोणि ! तत्राप्यौपयिकं तदा । कार्योपायो ह्यसंपूर्णस्तूर्णमुक्तोऽपि निष्फलः ॥२९६॥ ममास्ति चन्द्रचूडाह्वः शक्तिमांश्चन्द्रचूडवत् । आदिष्टसर्वकार्येषु तत्परः किङ्करः सुरः ॥२९७॥ रूपं कलापिनः कृत्वा स त्वां नेतेप्सितं पदम् । मदादेशादिव ब्रह्मादेशाद् ब्राह्मी सितच्छदः ॥२९८॥ देव्येत्युक्ते झगित्येव पतितोऽभ्रान्तरादिव । हृद्यैकलापि प्रकटोऽभूत् कलापी कुतश्चन ॥२९९॥ दिव्यं मयूरमारुह्य तमसह्यगतिक्रमम् । जिनार्चनाय देवीव यात्यायाति च सा क्षणात् ॥३०॥ तच्चेदं काननं चेतः शैत्यकृच्चैत्यमप्यदः । सा च कन्याप्यहं केकी विवेकी सैष मे पुनः ॥३०१॥ एतन् मया स्वचरितं कुमारोदीरितं तव । सौभाग्यसार ! किन्तु त्वां स्वच्छा पृच्छामि किञ्चन ॥३०२॥ ममात्र नित्यमायान्त्या अद्य मासोऽप्यपूर्यत । जामे मापि नाश्रावं सुरसिन्धोर्मराविव ॥३०३॥ विश्वकसार ! विश्वान्तर्भवता भ्रमता क्वचित् । रूपादिभिः सरूपा मे कन्या कापि न्यरूप्यत ॥३०४॥ वशंवद इवावादीत् कुमारः स्फारगीस्ततः । वित्रस्तहरिणीनेत्रे ! त्रैलोक्यतरुणीमणे ! ॥३०५॥ भ्रमतापि मया काचिन्नांशेनापि समा त्वया । प्रैक्षि प्रेक्षिष्यते नापि सदैव प्रेक्ष्यते यतः ॥३०६॥ युग्मम् ।
३४५