________________
प्रथमः
प्रकाशः
३४४
स्वामिन्यकृत्रिमतमान्तरभक्त्या मया यदि । सर्वकालं पूजिताऽसि प्रणताऽसि स्तुताऽसि च ॥ २८९ ॥ तदानीमद्य सद्यस्त्वं प्रसद्य निरवद्यगीः । दीनाया मामकीनायाः स्वसुः शुद्धि समादिश ॥ २८२ ॥ नो चेन्मया भवेऽप्यस्मिन् मातरत्याजि भोजनम् । इष्टस्याऽनिष्टशङ्कायां को वा भुञ्जीत नीतिवित् ? ॥ २८३ ॥ तस्या भक्त्या च शक्त्या चेत्युक्तियुक्त्या च तुष्टहृत् । साक्षाद्बभूव देवी द्रागैकाग्र्यात्किं न सिद्ध्यति ? ॥२८४॥ जगादाऽपि प्रसादार्द्रा भद्रे ! भद्रं तव स्वसुः । वत्से ! हृत्खेदविच्छेदं कुरु स्वीकुरु भोजनम् ॥२८५॥ मासेन लप्स्यसेऽशोकमञ्जर्याः शुद्धिमञ्जसा । तदैव दैवयोगेन तया सङ्गस्यसेऽपि च ॥ २८६ ॥
कदा कथं पुनः कुत्र स्वस्वसुर्मम सङ्गमः । इत्थं पर्यनुयुङ्क्षे चेदाचक्षेऽहं तदा श्रृणु ॥२८७॥ अपरेण पुरीतोऽस्या दूरेणास्ति महत्तरः । कातराणां दुरुत्तारः कान्तारस्तरुगह्वरैः ॥२८८॥ तस्मिन् समृद्धे राज्ञोऽपि न करप्रसरः क्वचित् । राजदारा इवासूर्यंपश्याश्चात्र शिवा अपि ॥ २८९ ॥ मणीमयं च तत्रोच्चैश्चैत्यं श्रीऋषभप्रभोः । भानोर्विमानमिव यद्विभाति भुवमागतम् ॥ २९०॥ जिनेन्द्रमूर्तिर्निस्तन्द्रचन्द्रकान्तमणीमयी । तदन्तर्भाति पूर्णेन्दुमण्डलीव दिवोऽन्तरे ॥ २९९ ॥ कल्पद्रुकामसुरभीकामकुम्भादिभावतः । माहात्म्यसारमादाय या व्यधायीव वेधसा ॥ २९२ ॥ तस्याः प्रशस्यातिशयस्फूर्तेर्मूर्तेस्त्वमर्चया । जामेर्निजाया वृत्तान्तं भोत्स्यसे लप्स्यसे च ताम् ॥२९३॥
AAAAA
श्राद्धविधिप्रकरणम्