________________
प्रथमः
श्राद्धविधिप्रकरणम्
प्रकाशः
अथ तत्रागतेत्युच्चैर्व्यलपत्तत्प्रसूरपि । दुःखं मे दुष्टदैवेदं निर्दयाऽदयथाः कथम् ? ॥२६८॥ एका हृता मे दुहिता परा तद्विरहातुरा । हा मरिष्यति मे साक्षाद् हा हताशा हताऽस्मि तत् ॥२६९॥ गोत्रदेव्यो वनदेव्यो नभोदेव्योऽपि सत्वरम् । सन्निधत्त विधत्तैनां कथञ्चिच्चिरजीविताम् ॥२७०॥ तस्याः सख्यश्च सैरन्ध्यः पुरन्ध्यश्च पुराश्चिरम् । तद्दुःखदुःखिता मुक्तकण्ठं चक्रन्दुरुच्चकैः ॥२७१॥ तदा तत्रत्यलोकानां शोकाद्वैते किमुच्यते । अशोकास्तरवोऽप्यासन् सशोका इव सर्वतः ॥२७२॥ तदा तद्दुःखसङ्क्रान्तदुःखोद्विग्न इवोच्चक्कैः । स्थातुं तत्राक्षमोऽमज्जद् भानुमान् पश्चिमाम्बुधौ ॥२७३॥ तत्र सर्वत्रगास्तोकशोकप्रकटिताध्वना । पूर्वस्या प्रसृतं ध्वान्तं प्राविशत्तरसा सुखम् ॥२७४।। अन्तःशोकेन लोकः प्राक् सकलोऽप्याकुलीकृतः । तदा तमोभिर्बहिरप्यहो मलिनचेष्टितम् ॥२७५॥ त्रैलोक्यमलिनीकारकारणं दूरयंस्तमः । अथामृतकरः प्रादुर्बभूव द्विजनायकः ॥२७६॥ शशी ज्योत्स्नारसासारैः कन्यां तिलकमञ्जरीम् । आप्याययत् कृपयेव वल्लीमिव नवाम्बुदः ॥२७७॥ यामिन्याः पश्चिमे यामेऽथो विपश्चिदपश्चिमा । पथिकीव ज्ञातपथोत्तस्थौ किञ्चिद्विचार्य सा ॥२७८।। सखीभिः सह साऽयासीत्सहसाराममध्यगम् । चक्रेश्वर्या गोत्रदेव्याः सद्म निश्छद्यमानसा ॥२७९॥ माहात्म्यसद्मसत्पद्ममालाभिः कुलदेवताम् । अभ्यर्च्य भूयसी भक्तिरिति कन्या व्यजिज्ञपत् ॥२८०॥
३४३