________________
प्रथमः
श्राद्धविधिप्रकरणम्
प्रकाशः
राभस्यात्तत्र धावद्भिर्धारैवीरैः परैरपि । शक्तं किमपि नो कर्तुं कान्वदृश्ये प्रतिक्रिया ? ॥२५५॥ युग्मम् । कर्णशूलमिवाकर्ण्य कन्यापहरणं क्षणम् । राजा वज्राहत इवाभवद्दुस्सहदुःखभाक् ॥२५६॥ क्व गतासि ? हहा वत्से ! किं न दत्से स्वदर्शनम् ? । स्वच्छे ! धत्से न किं तुच्छेतरत्प्रेम पुरातनम् ॥२५७॥ नृपतिविलपत्येवं यावत्तद्विरहातुरः । केनापि सेवकेनैत्य तावदेवमभण्यत ॥२५८॥ अशोकमञ्जरीशोकजर्जरीकृतचेतना । मञ्जरीव तरोर्वाताहता तिलकमञ्जरी ॥२५९॥ स्वामिन्नतुच्छमूर्छाभिनिश्चेष्टाचेष्टका यथा । कन्या कण्ठगतप्राणा निस्त्राणा पतिताऽस्ति हा ॥२६०॥ युग्मम् । तत्क्षतक्षारनिक्षेपदग्धस्फोटकसन्निभम् । श्रुत्वा प्राप जवाद् भूप उपतत्कन्यमन्ययुग् ॥२६१॥ कन्या च चन्दनरससेचनाद्युपचारतः । कथञ्चिच्चेतनां प्रापदित्युच्चैर्विललाप च ॥२६२॥ हाहा ! स्वामिनि ! मत्तेभगामिनि! क्वासि कुत्र वा ? मां विहाय प्रयाताऽसि निःसीमप्रेमवत्यपि ॥२६३॥ हा निस्त्राणा मम प्राणा लग्नबाणा इवाऽभितः । प्राणिष्यन्ति कथं हन्त हताशायास्त्वया विना ॥२६४॥ तात ! नातः परं किञ्चिद्विरूपं जीविताऽस्मि यत् । स्वस्वसुविरहं हन्त सहिष्ये दुस्सहं कथम् ? ॥२६५॥ एवं विलापिनी धूलौ व्यलोलद् ग्रहिलेव सा । उद्वर्त्तपरिवर्ताश्च शफरीवाऽजले व्यधात् ॥२६६॥ वल्लीव दवसंस्पर्शादूर्ध्वशोषं शुशोष च । तथा यथा जीविताशा तस्यां कस्यापि नाभवत् ॥२६७॥
३४२