________________
प्रथमः
श्राद्धविधिप्रकरणम्
प्रकाशः
दृढं रक्ताशोकशाखाबद्धामशोकमञ्जरी । बाला लीलावतीचित्तलोला दोलां समाश्रयत् ॥२४४॥ युग्मम् । पूर्वं तिलकमञ्जर्या सुन्दर्याऽजर्यधुर्यया । उच्चैरान्दोलयामास' बाला दोलाविलासिनी ॥२४५॥ तस्यास्तदा पदाघातात् प्रीतः स्वायत्तकान्तवत् । बभार पुलकाङ्कुरं कङ्केल्लिः कुसुमोद्गमैः ॥२४६॥ दोलायां दोलयन्तीयं विकारैर्विविधैः परैः । यूनां मनांसि नयनान्यप्यान्दोलितवत्यहो ! ॥२४७॥ रणज्झणन्मणिप्रेडमेखलादिकभूषणाः । तस्या अमन्दमाक्रन्दन्निव भङ्गभयात्तदा ॥२४॥ तरुणैः सा सरोमाञ्चं तरुणीभिरपीjया । वीक्ष्यमाणा क्षणं जज्ञे यावत्क्रीडाप्रसक्तहृत् ॥२४९॥ तावहुर्दैवतश्चण्डप्रोद्दण्डाशुगवेगतः । दोला टिति तुत्रोट साकं क्रीडारसेन सा ॥२५०॥ नाड्यामिवास्यां दोलायां त्रुटितायां द्रुतं हहा ! । भाव्यस्याः किमिति व्यग्राः समग्रा यावताऽभवन् ॥२५१॥ तावत् सदोला लोलाक्षी व्याकुलैस्तैर्व्यलोक्यत । उत्पतन्ती वियत्युच्चैा व्रजन्तीव कौतुकात् ॥२५२॥ यमवत्कोऽप्यलक्षो हा हृत्वनां याति यात्यहो ! लोकैरित्युच्चकैश्चक्रे निस्तुलस्तुमुलस्तदा ॥२५३॥ तस्या हरणमुत्पश्यैः पश्यद्भिरपि पार्श्वगैः । चण्डकोदण्डकाण्डौघधरैरपि सुदुर्धरैः ॥२५४॥
१. माहे इति को० ह० प्र० पाठः ।
३४१