________________
प्रथम: प्रकाशः
श्राद्धविधिप्रकरणम्
नितान्तचिन्तासन्तापतापितस्येति भूपतेः । मासा वर्षाणि वर्षाणि युगानीवातिचक्रतुः ॥२३२॥ कन्या धन्यापि हा कन्याजनकस्यैककष्टकृत् । अष्टमूर्तेर्यथादृष्टिः पुंसः सम्मुखवासिनः ॥२२३॥ यतः-जातेति पूर्वं महतीति चिन्ता, कस्य प्रदेयेति ? ततः प्रवृद्धा । दत्ता सुखं स्थास्यति वा न वेति ? कन्यापितृत्वं किल हन्त कष्टम् ॥२३४॥ अथ प्रथयितुं प्रोच्चैः स्मरराजस्य गौरवम् । अन्तर्वनं पूर्णऋद्धयाऽवततार वसंतराट् ॥२३५॥ मलयानिलसूत्कारैर्झङ्कारैरलिनां घनैः । कोलाहलैश्च वाचालकोकिलानां मनोहरैः ॥२३६॥ प्रोत्सर्पहर्पकन्दर्पक्ष्मापतेर्गायतीव यः । त्रिजगद्विजयोद्भुतकीर्तिगीतित्रयीं तदा ॥२३६॥ युग्मम् । तदा मुदा हृदाक्षेपात्ते क्षमाभृत्कुमारिके । क्रीडारसेनाकुलिते चलिते प्रतिकाननम् ॥२३८॥ कलभाऽश्वाऽश्वतरोक्षशिबिकास्यन्दनादिकान् । नानायानाश्रिता नैकसङ्ख्याः सख्यः सहाऽचलन् ॥२३९॥ सुखं सुखासनासीने ते सखीभिः परिष्कृते । लक्ष्मीब्राहयाविवाभातां विमानस्थे सुरीवृते ॥२४०॥ शोकनिर्णाशकाऽस्तोकविविधाशोकसङ्कलम् । अशोककाननाह्वानं ते उद्यानं समीयतुः ॥२४१॥ भृङ्गगर्भप्रसूनानि स्फुरत्तारकलोचनैः । प्रीत्येव योजयन्त्यौ ते तमाराममपश्यताम् ॥२४२॥ ततश्च रचितां चारुहरिचन्दनदारुणा । स्वचितां सन्मणिस्वर्णैर्विस्फुराच्चामराञ्चिताम् ॥२४३॥
३४०