________________
प्रथम: प्रकाशः
श्राद्धविधिप्रकरणम्
AAAAAAAAAAAAAAAA
पञ्चभिः पञ्चभिस्तत्र धात्रीभिः परिलीलिते । मेराविव कल्पलते ववृधाते क्रमेण ते ॥२१९॥ कलाकलापं सकलं कलयामासतुश्च ते । स्वल्पैदिनविलम्बः स्याद्धीसाध्ये धीमतां हि कः ? ॥२२०॥ रूपसंपत्तयोर्नव्ययौवनेन व्यशिष्यत । अशेषापि विशेषेण वसंतेनेव सद्वनी ॥२२१॥ उत्तेजिते असिलते स्मरेण करयोर्द्वयोः । सज्जीकृते विरेजाते जगज्जयकृते नु ते ॥२२२।। द्विजिह्वजिह्वे इव ते क्रूरग्रहदृशाविव । त्रैलोक्यक्षोभकारिण्यौ गते अप्रतिकारताम् ॥२२३॥ समैकदुःखसुखयोः समानन्दविषादयोः । समव्यापारयोः सर्वकार्येषु समरूपयोः ॥२२४॥ समानशीलयोः सर्वसमानगुणयोस्तयोः । आजन्मपरमप्रेम्णि यदि स्यादुपमा दृशोः ॥२२५॥ युग्मम् ॥ यतः-सहजग्गिराण सहसोविराण सहहरिससोअवंताणं । नयणाण वधन्नाणं आजम्मं निच्चलं पिम्मं ॥२२६॥ दध्यावथ नृपो भावी कोऽनुरूपोऽनयोर्वरः । द्वयोरेकः स चान्वेष्यो रतिप्रीत्योरिव स्मरः ॥२२७॥ यद्यन्योनोभिन्नवरवरणं जातु जायते । मिथो दुविरहान्नूनं मरणं शरणं तदा ॥२२८॥ उचितश्चैतयोः को वा युवाऽत्र सुकृती कृती । एकां कल्पलतां कोऽपि नैवाहेत् किं पुनर्द्वयीम् ? ॥२२९॥ नास्त्येव भुवनेऽप्येतामेकामपि लभेत यः । तत् किं कर्ता हहा कन्याजनकः कनकध्वजः ॥२३०॥ लोकोत्तरतया हन्त हतयोरेतयोरपि । हाऽनवष्टम्भलतयोरिव का भाविनी गतिः ? ॥२३१॥
३३९