________________
प्रथमः
प्रकाशः
३४७
AAAA
अहं त्वां शरणं प्राप्ता शरण्यं शरणार्थिनी । यद्वज्रपञ्जरायन्ते महान्तः शरणागते ॥ ३२० ॥ सुमिरः सुस्थिरः शैलः प्रचलः प्रज्वलज्जलम् । अनलः शीतलश्चाणुर्मेरुर्मेरुरथाणुकः ॥३२१ ॥
व्योम्नि पद्मं स्वरे शृङ्गमपि स्याज्जातु कुत्रचित् । कल्पान्तेऽपि न मुञ्चन्ति धीरास्तु शरणागतम् ॥३२२॥ युग्मम् । प्राज्यं राज्यं रजस्यन्ति नयन्ति निधनं धनम् । धीराः प्राणास्तृणीयन्ति त्राणाय शरणार्थिनाम् ॥३२३॥ ततस्तस्याः स पिच्छानि करैः कमलकोमलैः । स्पृशन् बभाषे मा भैषीर्मा भैषीर्भीरु ! भीरुवत् ॥ ३२४॥ नरेन्द्रः खेचरेन्द्रश्च सुरेन्द्रश्चासुरेन्द्रयुग् । हर्त्तु हे हंसि ! नो शक्तस्त्वां मदुत्सङ्गसङ्गताम् ॥३२५॥ शेबनिर्मुक्तनिर्मोकनिर्मलं पक्षयामलम् । प्रकम्पयसि कम्प्राङ्गी मदङ्कस्थाऽपि हंसि ! किम् ? ॥ ३२६ ॥ सरस्यास्तोयमानीय सरसानि विसानि च। सोऽपिप्रीणत्कृपालुस्तां व्याकुलां २वरलां ततः ॥ ३२७॥ केयमागात् कुतः ? कस्माद् भीताऽस्याश्च कथं नृवाग् ? । यावदेवं कुमाराद्यास्तदा संशेरते हृदि ॥३२८॥ तावत् कृतान्तं त्रैलोक्यकृतान्तं कः प्रकोपयेत् ? । को वा स्वजीवितोद्विग्नः शेषशीर्षमणि स्पृशेत् ? ॥ ३२९॥ को वा कल्पान्तकालाग्निज्वालासु सहसा विशेत् ? । उक्तिर्द्विद्भटकोटीनां उत्कटाऽऽकर्णितैरिति ॥ ३३० ॥ युग्मम् ।
१. विसानि= कमलानि । २. हंसीम् ।
श्राद्धविधिप्रकरणम्