________________
प्रथमः
श्राद्धविधिप्रकरणम्
प्रकाशः
अथ च-शिखामणीयितशिखाजुषं प्रेक्षकमुत्पुषम् । कमनीयकलापश्रीसकलं कलभाषिणम् ॥१९५॥ शिखण्डिनः परान् स्वश्रीविशेषेण शिखण्डिनः । कुर्वाणं वज्रिणोऽर्वाणं न्यत्कुर्वाणं स्ववेगतः ॥१९६॥ शिखण्डिवरमारूढा दिव्यं दिव्यतनुद्युतिः । श्रीधर्माराधनप्राज्ञा प्रज्ञप्तीव सुरीश्वरी ॥१९७।। पद्मिनीव समग्राङ्गपद्मसौरभ्यवर्षिणी । प्रस्फुरच्चारुतारुण्या लावण्यामृतसारणी ॥१९८॥ सर्वाङ्गदिव्याभरणैर्दिशस्तेजोमयीरिव । तन्वाना तत्र तन्व्येका सुमुखी समुपेयुषी ॥१९९॥ पञ्चभिः कुलकम् । श्रीनाभेयविभुं भक्त्याऽभिवन्द्य स्वककेकियुक् । साऽथ नर्तितुमारेभे रंभेव भुवमीयुषी ॥२०॥ प्रशस्तैर्हस्तकै काङ्गहारैः करणैरपि । भावैश्च विविधैर्हां नर्तकीव ननर्त्त सा ॥२०१॥ कुमारकीरयोश्चित्ते तथा तत्र चमत्कृते । सर्व विस्मृत्य संप्राप्ते यथा तन्मयतामिव ॥२०२॥ रूपसारं कुमारं तं सापि प्रेक्ष्य मृगेक्षणा । सोल्लासा सविलासाऽऽसीच्चमत्कृतिमयी चिरम् ॥२०३॥ भणिता च कुमारेण करभोरु ! भवेन्न चेत् । मनागपि मनःखेदस्तदा पृच्छामि किञ्चन ॥२०४॥ ओमित्युक्तवती सापि तेन पृष्टा विशिष्टवाक् । आमूलचूलमूचे स्वं वृत्तान्तमिति तान्तिहृत् ॥२०५।।
१. भाषिणी इति को० ह० प्र० पाठः ।