________________
प्रथमः
श्राद्धविधिप्रकरणम्
प्रकाशः
प्रविशन्तौ च तौ तत्र प्रीतौ प्रेक्षां बभूवतुः । प्रासादमादिदेवस्य दीव्यन्नव्यमणीमयम् ॥१८२॥ भो भवद्वयलाभस्ते भाव्यत्रेति कुमारराट् ! । दूरादाकारयाञ्चक्रे कम्पया यत्पताकया ॥१८३॥ तिलकद्रुममूलेऽश्वं नियम्य कुसुमाद्यथ । प्रगुणीकृत्य चैत्यान्तः कुमारः कीरयुग् ययौ ॥१८४॥ विधिविद्विधिवत्पूजां विधाय विविधैः सुमैः । विनिद्रधीजिनेन्द्रं स स्तोतुमित्युपचक्रमे ॥१८५॥ श्रीमद्युगादिदेवाय सेवाहेवाकिनाकिने । नमो देवाधिदेवाय विश्वविश्वकदृश्वने ॥१८६॥ परमानन्दकन्दाय परमार्थंकदेशिने । परमब्रह्मरूपाय नमः परमयोगिने ॥१८७॥ परमात्मस्वरूपाय परमानन्ददायिने । नमस्त्रिजगदीशाय युगादीशाय तायिने ॥१८८॥ योगिनामप्यगम्याय प्रणम्याय महात्मनाम् । नमः श्रीशम्भवे विश्वप्रभवेऽस्तु नमो नमः ॥१८९॥ इत्युल्लासेन पनसफलवत्स्फुटकण्टकः । जिनं स्तुत्वाऽऽप्ततत्त्वार्थः प्रवासं सोऽकृतार्थयत् ॥१९०॥ सतृष्ण इव तच्चैत्यमभितः सुषमामृतम् । पायं पायं व्यपायं स सौहित्यसुखमन्वभूत् ॥१९१॥ निविष्टश्च विशिष्टश्रीकारणे मत्तवारणे । शुशुभे स्वविभुरिवैरावणे मत्तवारणे ॥१९२॥ कुमारः कीरमूचे च किमद्यापि न लभ्यते । तत्तापसकुमारस्य शुद्धिः कापि प्रमोदकृत् ॥१९३॥ शुकोऽप्याख्यत् सखे ! खेदं माकार्षीहर्षमावह । आसन्नशकुनान्नूनमद्य स्यात्तस्य सङ्गमः ॥१९४॥