________________
प्रथम: प्रकाशः
श्राद्धविधिप्रकरणम्
AAAAAAAAAAAAAAAA
कुतोऽन्यथा तदा पृष्टः सोऽभूद् बाष्पाम्बुपूर्णदृग् । अबलानामिदं चिह्नं नोत्तमे पुंसि संभवेत् ॥१६९॥ न घोरः समि( मी )र: सोऽपि किन्तु दिव्यं किमप्यदः । नो चेन्महर्षिमेवैषोऽपाहार्षीन्न तु नौ कुतः ? ॥१७॥ धन्या कन्यापि सा कापि दैवतादिकदुर्ग्रहात् । विडम्ब्यते ध्रुवमेवं दुर्दैवं प्रति कः प्रभुः ? ॥१७१॥ दुष्टग्रहाद्विमुक्ता च सा त्वामेव वरिष्यति । दृष्टपूर्वी सुपर्व कोऽन्यत्र कुरुते रतिम् ॥१७२॥ दुष्टग्रहाद्विमोक्षोऽपि तस्याः संभाव्यते द्रुतम् । रात्रिग्रहादिवाब्जिन्यास्तव शूर ! शुभोदयात् ॥१७३॥ संगस्यते च ते सद्यः सापि दैववशात् क्वचित् । आवश्यकी ह्यभीष्टार्थसिद्धिः सद्भाग्यशालिनाम् ॥१७४॥ संभाव्याऽपि प्रोच्यमानं माननीयमिदं त्वया । ज्ञास्यते चाल्पकालेन सत्यासत्यत्वनिर्णयः ॥१७५॥ तद्विपालान् दुरापालान् कुमार ! सुविचारवित् ! किमङ्ग कुरुषे धीर ! पुरुषेष्विति नौचिती ॥१७६॥ इति कीरगिरं युक्तियुक्तां मनसिकृत्य सः । कृत्यवित्त्यक्तशोकोऽभूद् विज्ञोक्तिः किं न साधयेत् ? ॥१७७॥ तमिष्टदेवतामिव स्मरन्तौ तौ यतीश्वरम् । वाजिराजमथारुह्य पथि प्राग्वत् प्रचेलतुः ॥१७८॥ काननानि नगान्नैकानाकरान्नगराणि च । सरांसि सरितोऽप्युच्चैः समुल्लङ्घ्य सहस्रशः ॥१७९॥ निरन्तरप्रयाणेन प्रयान्तौ तौ क्रमात् पुरः । प्रकाममभिरामद्रुमाराममालुलोकताम् ॥१८०॥ युग्मम् । यो निस्सीमद्रुमसुमभ्रमभ्रमरझङ्कृतैः । स्वागतं निजगादेव कुमारेन्द्राय सादरम् ? ॥१८१॥
३३५